________________
त्यक्त्वाऽन्यत्र विशाले रमणीये चोद्याने गतः । तत्र स वृक्षः स्वच्छाया-पर्ण-पुष्प-फलादिभिर्बहूनां जनानामुपकारकर आश्रयस्थानं च जात इत्यपि दृष्टम् । किञ्च, मातुः कुक्षिस्थेऽस्मिन् देशोऽयं निरुपद्रवोऽशिवादिरहितश्च जातः, सर्वत्र च सुकालः प्रवर्तितः । अस्य जन्मसमये दिङ्मुखानि विमलानि जातानि, जन्मस्थले च सगन्धोदक-कुसुमवृष्टिर्जाता, नभसि च दिव्यवादित्राणां नादः प्रसृतः । अस्य जन्मदिनोऽपि वैक्रमीय-११४५तमाब्दस्य कार्तिकी पूर्णिमाऽस्ति । जन्मन आरभ्याऽयं सर्वेषां प्रियः प्रसन्नताप्रदश्चाऽस्ति । अतोऽस्य नाम चङ्गदेव इति स्थापितम् ।
एतच्छ्रुत्वा चङ्गदेवस्य च सामुद्रिकलक्षणानि पश्यद्भिर्गुरुभगवद्भिर्मधुरस्वरेण कथितं - 'भोः ! अस्य मात्रा स्वप्ने यदुद्यानं दृष्टं तज्जिनशासनमस्ति । तत्र च व्रत-दीक्षाग्रहणपूर्वकं गतोऽयं समस्तशास्त्राणां परमार्थमवगाह्य तीर्थकरवल्लोकोपकारं करिष्यति । अतो भवान् अस्य माता-पितरौ बोधयित्वाऽस्मै दीक्षादानार्थमनुमति दापयतु । बहूनां लोकानामुपकारो भविष्यति' ।
ततश्चङ्गदेवस्य दीक्षानुज्ञार्थं तैः पित्रोर्बोधनाय बहु प्रयतितं किन्तु पितुरतीवप्रियत्वात् तेन सर्वथा निषिद्धम् । ततो गुरुभगवद्भिस्तन्माताऽऽकारिता कथितं च तत् तस्यै यत् सर्वमपि तन्मातुलस्य कथितमासीत् । तयाऽपि च कथितं - 'प्रभो ! अहमपि जानामि यदयं मे पुत्रो जिनशासनस्यैव न्यासरूपोऽस्ति । किन्तु अस्य पितुरयमतीव प्रियोऽस्ति । अतः सोऽनुमति नैव दास्यत्यस्मै दीक्षाग्रहणार्थम्' । 'अस्तु, यथाकालं सर्वमपि भविष्यती'त्युक्त्वा कतिचिद्दिनानन्तरं गुरुवस्ततो विहृत्य स्तम्भतीर्थं (खम्भातनगरं) प्रति प्रस्थिताः । चङ्गदेवोऽपि च धर्मैकचित्तो व्रतग्रहणे च तीवेच्छुकः पितुरनुपस्थितौ मातुलं मातरं चाऽऽपृच्छ्य गुरुभिः सहैव प्रस्थितः ।
15 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org