________________
कयसुकयकुमुयबोहा, चउरचओरप्पमोयसंजणणी । संतिजिणचरियकहा, जुण्हव्व वियंभिया तत्तो ॥ १ ॥ जे ठाणएसु ठविया, पज्जुन्नमुणीसरेण धम्मदुमा | काऊण ताण विवई, ते जेण लहाविया वुद्धिं ||२|| (कुमारपालप्रतिबोधे)
ईदृशा बहुश्रुतास्तपस्विनो योगिनश्चैते देवचन्द्रसूरय एव कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां गुरव आसन् । तथा चैतादृश्यासीत् श्रीहेमचन्द्राचार्याणां गुणगौरविना गुरुपरम्परा । अथेदानीं तेषामेव हृदयाह्लादकर्यां जीवनचरितयात्रायां प्रस्थानं कुर्याम
सर्वत्राऽप्रतिबद्धतया विचरन्तो देवचन्द्रसूरयोऽन्यदा गूर्जरदेशस्य धन्धुक्ककनगरे ( इदानींतने धन्धुकानगरे) समागताः । तानागतान् ज्ञात्वा भूयांसो नगरजनास्तान् वन्दितुं धर्मदेशनां श्रोतुं चाऽऽगताः । गुरुभिरपि संसारासारत्वप्रकाशनी उत्तमा धर्मदेशना दत्ता । तां श्रुत्वा सभामध्यस्थित एको देवकुमारसदृशः सुकुमारो वणिक्कुमार उत्थाय साञ्जलिर्व्यज्ञपयत् - 'प्रभो ! जन्म-जरामरणादिलहरीभिः संसारसमुद्रे हियमाणाय मे प्रव्रज्याप्रवहणदानेन तारयन्तु कृपया' । गुरुभगवद्भिरपि श्रुत्वैतदानन्द - विस्मयादिभावयौगपद्ययुतैः पृष्टं - 'कस्त्वं भो भाग्यशालिन् ! कौ च ते पुण्यशालिनौ मातापितरौ ?'
तावता तस्य कुमारस्य समीपस्थितेन नेमिनाम्ना जनेन सविनयं निवेदितं - 'प्रभो! अयं चच्च श्रेष्ठिनतत्पत्न्याः शीलवत्या धर्मपरायणायाश्च चाहिणीनाम्न्या मे भगिन्याः पुत्रो निरुपमरूपवान् प्रकृष्टमतिवैभववान् जगदुद्धरणकरणमनोरथवांश्चाऽस्ति । यदाऽयं स्वमातुर्गर्भे समागतस्तदा तया स्वप्ने प्रथमं स्वीयगृहाङ्गणे विशालो रम्यश्चाऽऽम्रवृक्षः फलितो दृष्टः । तदनन्तरमेव स वृक्षस्तस्या गृहं
14
Jain Education Internationa For Private & Personal Use Only www.jainelibrary.org