________________
स्वीयमात्मानं विगतपापं धन्यं च करिष्यामि प्रात:काले" ।
प्रभाते च कृतसर्वकर्तव्यः स सर्वेणाऽपि मन्त्रिसामन्तान्तःपुरादिपरिवारेण परिकरितः सन् श्रीदत्तसूरीनाचार्यपादान् वन्दितुं तेषां वसतौ समागतः । तत्र च स आचार्यभगवत्पुरतो भूमौ स्वशिरो नामयित्वा भक्तिभावपूर्वकं वन्दितवान् साश्रुः साञ्जलिश्च विनिवेदितवान् - 'भगवन्तः ! धन्या यूयं ये खलु संसारासारतां विज्ञाय सर्वसङ्गत्यागं कृत्वाऽऽत्मकल्याणनिरताः परलोकं साधयथ । वयं त्विहलोकमात्रप्रतिबद्धाः भौतिकसुखरताश्चाऽऽरम्भपरिग्रहादिभिः केवलं पापमेव चिनुमः' ।
गुरुभिरपि तं लघुपापं हितकाक्षिणं च ज्ञात्वा तस्मै मानुष्यदौर्लभ्य-मोहप्राबल्यादिबोधिनीह-परोभयलोकसाधनप्रेरिका च धर्मदेशना प्रदत्ता । तां श्रुत्वा तस्य हृदये धर्मानुरागाङ्कराः प्रस्फुटिताः । तेन गुरुपादौ प्रणम्य कथितं - 'भगवन्तः । भवद्भिरुभयलोकसाधनी या प्रेरणा प्रदत्ता साऽपूर्वैव, यतः प्रियतमोऽपि जनः केवलमिहलोकसुखार्थमेव प्रेरयति खलु । तद्भवतां प्रेरणा मम हृदये लग्नाऽस्ति । उचितकालेऽहमवश्यं राज्यमिदं त्यक्त्वा भवतां चरणयोः शरणं स्वीकृत्य निजजनु सफलीकरिष्यामि ।' ततः स पुनः पुनः गुरुपादौ प्रणम्य स्वस्थानं गतः, आचार्यभगवन्तोऽपि सपरिवाराः कतिपयदिनानन्तरं ततोऽन्यत्र विहृत्य गताः ।
इतश्च राजाऽन्यदा शरत्काले स्वीयक्षेत्रेषु सञ्जातं धान्यजातं विलोकयितुं सीमनि गतवान् । तदात्वे च कर्षकैर्निष्फलं तृणादिकं पुञ्जीकृत्य ज्वालयितुमारब्धमासीत् । राज्ञाऽपि तमग्नि विलोकयता सहसा दृष्टं यदेका गर्भवती सर्पिणी तस्यैवाऽग्नेमध्ये कुतोऽप्यागता दग्धाऽस्तीति । तन्मनसि हाहाकारो जातः । पश्चात्तापक्लिन्नहृदयः स सबाष्पनेत्रश्चिन्तितवान् - 'नूनं गृहवासो हि महतां पापानां
11 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org