________________
सरस्वती देवी आराधनीयेति निश्चित्य तेन स्वभावना गुरुभगवद्भ्यो निवेदिता । तैरपि प्रसन्नतया स्वीकृत्य काश्मीरदेशं प्रति विहर्तुमारब्धम् । अथ च पादचारेण गच्छतां तेषां कतिचिद्दिनानन्तरमेवैकदा स्वयं काश्मीरवासिनी वाग्देवी प्रत्यक्षीभूता कथितवती च 'वत्स ! तव भक्त्या साधनया च प्रसन्नाऽहं तेऽभिलाषं पूरयामीहैव । अतो न त्वया काश्मीरदेशं यावदागन्तव्यम्' । एवं च देव्या प्रदत्तेन वरदानेन मुनिः सिद्धसारस्वतो जातः । *
अथाऽन्यदा मुनिः सोमचन्द्रः स्वीयगुरुभिः सह कस्यचिच्छ्रावकस्य गृहे तत्प्रार्थनया भिक्षार्थं गतवान् । स हि श्रावकः पूर्वमतीव धनवानासीत्, किन्तु कर्मोदयात् स निर्धनो जातः । तेन स्वकृते प्रगुणितं काञ्जिकं गुरुभगवद्भ्यः प्रदत्तम् । एतद् दृष्ट्वा परितः पश्यता मुनिना मन्दस्वरेण गुरुभगवद्भ्यः कथितं 'प्रभो! कियान् कृपणोऽयं श्रावको यः स्वगृहे कनकभरैः पूर्णे सत्यपि काञ्जिकं प्रदत्ते ?' । एतत् कथनं स श्रावकः श्रुतवान् । तेनाऽपि परितो दृष्टम् । तस्य गृहेऽङ्गाराणां राशिरेव सर्वत्र विकीर्ण आसीत् । किन्तु चतुरः स मुनेः सोमचन्द्रस्य कथनस्याऽऽशयमगवतवान्, यावच्च गुरवः किञ्चिद् विचारयेयुस्तावत् तेन स्वहस्ताभ्यां मुनिरुत्पाट्याऽङ्गारराशावेवोपवेशितः । पुण्यवतो मुनेः स्पर्शनेनैव स राशिः सुवर्णत्वेन परावृत्तो जातः । एतेन हृष्टः स * एवमेव अम्बिकादेव्यपि तस्योपरि प्रसन्नीभूता तस्मै वरं दत्तवतीत्यपि प्रबन्धैर्ज्ञायते । तथाहि - आचार्यदेवेन्द्रसूरिः मुनिः सोमचन्द्रः, मुनिर्मलयगिरिश्चेत्येभिस्त्रिभिरपि कठोरसाधनयाऽम्बिका देवी प्रसन्नीकृता त्रिभ्योऽपि यथेप्सितं वरं प्रददौ । तत्र देवेन्द्रसूरिणा तीर्थोद्धारस्य, सोमचन्द्रेण राजप्रतिबोधस्य, मलयगिरिणा च सिद्धान्तग्रन्थानां विवरणलेखनस्य वरं याचितम् ।
+ अद्यत्वेऽपि प्राचीननगरेषु (निधानतया निखातं ) धनं खननकालेऽङ्गारराशित्वेन बहुधा प्रकटीभवति, किन्तु कस्यचिद् भाग्यवतः पुण्यैस्तदेव सुवर्णतयाऽपि प्रकटीभवति ।
,
—
19
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org