________________
धन्यतामनुभविष्यन्ति । देश-विदेशेषु तस्य यशः प्रसरिष्यति........' स्वप्नं पश्यन्निव चच्चः सहसा जागृतो जातो निर्णयं च गृह्णन् स उदयनमन्त्रिणमवदत् - 'मन्त्रीश्वर ! भवदुक्तं मम सम्मतम् । एषोऽहं भवते मत्पुत्रं समर्पयामि' । मन्त्रिणोक्तं - ‘मा मैवं वदतु भवान् । भवता हि गुरुपादेभ्यः समर्पयितव्यः सः । धन्योऽस्ति भवान् । रत्नत्रय्याः पथि स्वपुत्रस्य समर्पणेन भवता महत् पुण्यमुपार्जितमस्ति । नूनं धन्योऽस्ति भवान्' ।
ततश्च चङ्गदेवं गृहीत्वा द्वावपि गुरुभगवतां वसतौ गतौ । तेषां च हस्तयोः समर्पितः स चच्चश्रेष्ठिना सानन्दम् । गुरुभगवद्भिरपि स्तम्भतीर्थनगर एव आलिगवसतौ श्रीपार्श्वनाथजिनचैत्ये वैक्रमीये ११५४तमाब्दे माघशुक्लचतुर्दशीदिने शनिवासरे उदयनमन्त्रिकारितमहोत्सवपूर्वकं चतुर्विधश्रीसङ्घस्योपस्थितौ मातापित्रोराशी:पुरस्सरं च दीक्षितश्चङ्गदेवः । तस्य च नाम मुनिसोमचन्द्र इति स्थापितम् ।
अथ च मुनिः सोमचन्द्रः कुशाग्रबुद्धिरत्यन्तं तेजस्वी चाऽऽसीत् । गुरवोऽपि श्रीदेवचन्द्रसूरयो महाविद्वांसो ज्ञानिनश्चाऽऽसन् । ततश्च जातो मणिकाञ्चनसंयोगः । तस्मिन् युगे लक्षणतर्क-साहित्यानि महाविद्यात्वेन परिगण्यन्ते स्म । सोमचन्द्रेण मुनिना स्वल्पेनैव कालेन तासु तिसृष्वपि विद्यासु तथाऽन्येष्वपि योग-तत्त्वज्ञान-पुराणेतिहास-दर्शनादिविषयेषु आगमेषु च पारगामित्वमधिकारश्च प्राप्तौ । ज्ञानाभ्यासेन सहैव च तेन निर्मलीमसं चारित्रमिन्द्रियजयोऽन्तर्मुखता, शुद्धवैराग्यमुपशमभाव-इत्यादिका गुणा अपि स्वीयजीवने साधिताः ।
किञ्च, सोमचन्द्रो मुनिर्यद्यपि शास्त्रेषु पारङ्गतो जातस्तथाऽपि तस्य हार्दोऽभिलाषस्तु वाग्देव्याः साधनां कृत्वा सिद्धसारस्वतीभवनस्याऽऽसीत् । तदर्थं हि काश्मीरदेशं गत्वा काश्मीरवासिनी
18 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org