________________
द्वौ वज्रवर्णी जगतीपतीनां सद्भिः प्रदिष्टौ ननु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ॥
___(काव्यानुशासने, अ० १) हंहो स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिद्दिनानि भवता नाऽस्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद् वा न वा सङ्गमः ।। (तत्रैव) स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदायमनिर्वेदः मातरोऽष्टौ कवित्वस्य ॥ (तत्रैव) सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदी विलज्ज ! शिरसा तच्चाऽपि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥
___ (काव्यानुशासने, अ० २) कृष्णेनाऽम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्ण !, क एवमाह, मुसली, मिथ्याऽम्ब ! पश्याऽऽननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जगत् । दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स व: केशवः ।।
(तत्रैव) - इत्यादि ।
एवमेवाऽपभ्रंश(प्राकृत)भाषाव्याकरणेऽपि हेमचन्द्राचार्यैः पुरातनानि नवीनानि च लोकसामान्यप्रसिद्धान्येवोदाहरणानि सन्दृब्धानि, तानि च मारु-गूर्जरादिभाषाया अध्ययनाय क्रमिकविकासबोधाय चाऽत्यन्तमुपयुक्तानि । तत: कानिचनाऽत्राऽपि प्रस्तूयन्ते -
87 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org