________________
च विरचयति स एव प्रतिभासम्पन्न इति कथ्येत साहित्यसर्जकत्वं च तस्यैव परिगणनार्हम् । हेमचन्द्राचार्यैर्हि पूर्वसाहित्यस्रष्टृणां ग्रन्थानुपयुज्यैव प्रायशः स्वग्रन्था विनिर्मिता । अतस्तेषामपूर्वत्वं मौलिकत्वं च नास्ति ।
तथाऽपि, मौलिकतामपूर्वतां चाऽधिकृत्य हेमचन्द्राचार्याणां मतं किञ्चिदपूर्वमेव । ते कथयन्ति यत् - 'कोऽपि साहित्यस्स्रष्टा सर्वथा नूतनं वस्तु विरचयितुं न कदाऽपि समर्थः, पूर्वसूरीणां साहित्यं तेनाऽवलम्बनीयमेव । केवलं तस्य विकासो विकासस्य च शैली सर्वेषां भिन्ना नूतना वा भवति' । यदुक्तं तैरेव स्वविरचित - प्रमाणमीमांसाग्रन्थस्य टीकाया आरम्भे - " अनादय एवैता विद्याः सङ्क्षेप - विस्तार- विवक्षया नवनवीभवन्ति, तत्तत्कर्तृकाश्चोच्यन्ते ।"
-
एतन्मतेन यदि हेमचन्द्राचार्यविरचितग्रन्थानामेव परीक्षणं क्रियेत तदा तेषां मौलिकत्वमपूर्वत्वं चाऽक्षुण्णमेव सर्वथा । ततश्चाऽऽचार्याणां प्रतिभा साहित्यसर्जकत्वं चाऽप्यक्षुण्णमेव ।
अस्तु, प्रकृतं प्रस्तुमः । अत्रैकैकशस्तेषां ग्रन्थानां परिचयः प्रदत्तोऽस्ति ।
१. सिद्धहेमशब्दानुशासनम् (सिद्धहेमव्याकरणम्) - हेमचन्द्राचार्येभ्यः पूर्वं वर्तमानेषु व्याकरणेषु विस्तारः, काठिन्यं, क्रमभङ्ग आनुवृत्तिबाहुल्यं चेत्यादयो दोषाः सन्ति । तन्निवारणार्थं ह्याचार्यैः स्वपूर्ववर्तिव्याकरणानां सम्यग्ध्ययनं कृतम् । ततश्चैकं सर्वाङ्गपरिपूर्णमुपयोगि निर्दोषं च व्याकरणं विरचितम् । तदभिधानं च नृपस्य सिद्धराजजयसिंहस्य स्वस्य च नाम्नोऽर्धं भागं गृहीत्वा सिद्धहेमशब्दानुशासनमिति कृतम् । अत्र व्याकरणे तैः पूर्ववर्तिव्याकरणानां बहूनि सूत्राण्युदाहरणानि च यथातथमेवाऽत्र गृहीतानि सन्ति, किन्त्वेतावताऽपि तेषां निबन्धनक्रमवैशिष्ट्यं
72
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org