________________
सर्वथा मौलिकमपूर्वं च । तथा बहुत्र तैः सूत्राणां भावमवगम्य ततो नूतनान्येव सूत्राणि विरचितानि । किन्तु सर्वाण्यपि सूत्राणि सुव्यवस्थितानि सुसम्बद्धानि च । तथा सूत्राणां प्रणयनमप्यावश्यकतानुरूपं कृतमस्ति । एकमपि सूत्रं तादृशं नास्ति यस्य कार्यमन्येन सूत्रेण क्रियेत । एवं च तेषां मौलिकता प्रतिभासम्पन्नता च सर्वथाऽक्षुण्णा वर्तते ।
I
किञ्च, पाणिनीयाऽष्टाध्यायी ह्यतीव विस्तृता दुर्बोधा च । तथा सा प्रक्रियानुसारिण्यपि नास्ति । इतरपक्षे कातन्त्रं व्याकरणं यद्यपि प्रक्रियानुसारि तथाऽपि परिपूर्णं नास्ति । अतो हेमचन्द्राचार्यैः कातन्त्रस्य प्रक्रियानुसारिणी परम्परा पुनरुज्जीविता, तथा पाणिनीयव्याकरणापेक्षया लघु स्पष्टं च, कातन्त्रापेक्षया च सर्वाङ्गपरिपूर्णं व्याकरणं विरचय्य व्याकरणक्षेत्रे नूतनस्य हेमसम्प्रदायस्य निर्माणं कृतम् । व्याकरणस्य साधारणबोधवानपि विद्यार्थी तेषां व्याकरणं सरलतया हृदयङ्गमं कर्तुं शक्नोति, संस्कृतभाषायाश्चसमस्तशब्दानामनुशासने पारङ्गतो भवति ।
अनेन परवर्तिनो वैयाकरणास्तथा प्रभाविता जाता यथा पाणिनीयवैयाकरणा अपि अष्टाध्याय्या अध्ययनमध्यापनं च प्रक्रियानुसारेणैव कर्तुमारब्धाः । षोडशशताब्द्या अनन्तरं (भट्टोजीदीक्षितेन सिद्धान्तकौमुदीप्रणयनानन्तरं ) तु सर्वत्राऽपि प्रक्रियानुसारेणैव पाणिनीयव्याकरणस्य पठन-पाठनं भवति । सूत्रपाठ - क्रमानुसार्यध्ययनादि तु प्रायश उच्छिन्नमेव ।
आचार्यैर्हि व्याकरणेन सहैव तस्य लघुवृत्तिर्बृहद्वृत्तिर्बृहन्यासश्च विरचिता: । तथा उणादिसूत्राणि तद्विवरणं, धातुपाठो, धातुपारायणं तद्विवरणं, व्याकरणगतोदाहरणानां सिद्ध्यर्थं च द्वयाश्रयं महाकाव्यं चेति सर्वाण्यपि तदङ्गानि स्वयमेव विरचय्य पाणिनेः पतञ्जलेर्भट्टोजीदीक्षितस्य भट्टेश्च
73
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org