________________
कार्याणि एकलेनैव कृतानि ।
अथ च पाणिनिमनुसृत्य हेमचन्द्राचार्यैरपि स्वीयव्याकरणमष्टस्वध्यायेषु विभक्तमस्ति । तत्र सप्तस्वध्यायेषु संस्कृतभाषाव्याकरणम्, अष्टमे चाऽध्याये प्राकृतभाषाव्याकरणं निबद्धमस्ति । संस्कृतव्याकरणमिव प्राकृतव्याकरणमपि सर्वाङ्गपरिपूर्णमस्ति । एतच्चाऽद्यावधि अपूर्वमेव । यतस्तेऽन्यवैयाकरणवत् पाणिनीयव्याकरणाल्लोकोपयोगिनोंऽशान् गृहीत्वैव सन्तुष्टा न जाताः किन्तु स्वकालं यावत् प्रचलिताया भाषाया अपि व्याकरणं निबद्धवन्तः ।
तेषां पूर्ववर्तिवैयाकरणैरपि वररुचि-चण्डप्रमुखैर्यद्यपि शौरसेनी-मागधी-पैशाचीभाषाणां स्वरूपं स्वस्वव्याकरणेषु किञ्चिन्निरूपितमस्ति, तथाऽपि अपभ्रंशभाषाया व्याकरणं तु हेमचन्द्राचार्याणामेवाऽपूर्व प्रदानम् । अत्र च तैरुदाहरणरूपेण सर्वत्र पूर्णा गाथाः, पूर्णानि वृत्तानि, पूर्णानि चाऽवतरणानि प्रदत्तानि सन्ति, यैर्हि तेषां सङ्ग्राहकप्रतिभा लोकभाषानुरागश्च प्रतीयते । एतच्च विलोक्याऽपभ्रंशसाहित्यस्य प्राच्यसमृद्धि प्रति विद्वज्जगत् जागृतं जातं तन्मूलग्रन्थानां संशोधने च लग्नम् । एवं चाऽऽचार्यैरपभ्रंश-भाषाव्याकरणं विरचय्याऽपूर्वमैतिहासिकं च कार्य कृतमस्ति । अद्यत्वे भाष्यमाणानां गूर्जर-मारुप्रमुखभाषाणां मूलमेषैवाऽपभ्रंशभाषाऽस्ति, तस्याश्च व्याकरणस्य तदुदाहरणानां चाऽभ्यासेनैतासां भाषाणां क्रमिको विकासः कथं जातस्तासु च के रूढप्रयोगाः के च नूतना इत्यादीनामध्ययनं बोधश्च सरलतया भवति । विद्वज्जना वदन्ति यत् - प्राचीनभाषाणामध्ययनार्थं सिद्धहेमशब्दानुशासनं विना न किमप्युपयुक्ततरम् ।
अथ च प्राकृतव्याकरणस्याऽपि प्रयोगानां सिद्धयर्थं तैः प्राकृतव्याश्रयमहाकाव्यं विरचितमस्ति । एवं च संस्कृत
74 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org