________________
*
प्राकृतव्याकरणापरनाम्नः सिद्धहेमशब्दानुशासनस्याऽष्टमाध्यायस्य प्रयोगानामुदाहरणानां च सिद्धया सह कुमारपालराजस्य चरितं निबद्धमस्ति । एवं चैतन्महाकाव्यं संस्कृतभाषाया प्राकृतस्य च षण्णामपि महाराष्ट्री-शौरसेनी-मागधी-पैशाची-चूलिकापैशाचीअपभ्रंशभाषाणां बोधार्थमत्यन्तमुपयोगि । सहैव महाकाव्यस्याऽपि सर्वेषामपि लक्षणानामस्मिन् विद्यमानत्वात् काव्यत्वदृष्ट्याऽपि सर्वथा साफल्यं वहति महाकाव्यमिदम् । तथैव चौलुक्यवंशीय-- नृपाणामितिहासज्ञानेऽपि सर्वथा प्रस्तुतमिदं महाकाव्यम् । १०. वीतरागस्तवः
वीतरागभक्तिमयमिदं काव्यं काव्यत्वदृष्ट्याऽपि श्रेष्ठमस्ति । भक्तितत्त्वेन सहाऽत्र सर्वत्र जैनदर्शनमपि व्याप्तमस्ति । विशतिप्रकाशमयेऽस्मिन् भक्तिस्तवे शान्तरसो निरालम्बं प्रवहति, आनन्दः सर्वत्रोज्जागरोऽस्ति, स्वीयाराध्यतत्त्वे च लयप्राप्तेः प्रवृत्तिरपि सहजाऽस्ति । महाराज-कुमारपालस्यैवकृते विनिर्मितमिदं भक्तिकाव्यं हेमचन्द्राचार्याणां श्रेष्ठसर्जकत्वं द्योतयति । ११. अन्ययोगव्यवच्छेदद्वात्रिंशिका
केवलं द्वात्रिंशद्वृत्तमयेऽस्मिन् वर्धमानजिनस्तुतिरूपे काव्यग्रन्थे हेमचन्द्राचार्यैः सर्वेषामपि दर्शनानां सिद्धान्तान् विषयीकृत्य विशदा चर्चा कृताऽस्ति । चिन्तनस्य भक्तेश्चाऽत्यन्तं सुन्दरः समन्वयोऽत्र काव्येऽस्ति यदेष ग्रन्थो दार्शनिकदृष्ट्या काव्यकलादृष्ट्या चेत्युभयथाऽप्यत्यन्तमुत्कृष्टोऽस्ति । अस्मिन् ग्रन्थे आचार्यश्रीमल्लिषेणसूरिभिरत्यन्तं प्रासादिक-रोचक-शैल्या सरसया च भाषया स्याद्वादमञ्जरीनाम वृत्तिविरचिताऽस्ति । १२. अयोगव्यवच्छेदद्वात्रिंशिका
वर्धमानजिनस्तुतिरूप एवाऽयमपि काव्यग्रन्थः केवलं * श्रीहेमचन्द्रप्रभवाद् वीतरागस्तवादितः । कुमारपालभूपालः प्राप्नोतु फलमीप्सितम् ।।
(वीतरागस्तवस्याऽन्तिमः श्लोक:)
79
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org