________________
कुण्ठाऽपि यदि सोत्कण्ठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तर्हि, स्वस्त्येतस्यै किमन्यथा ? ॥१९।। तव प्रेष्योऽस्मि दासोऽस्मि, सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व, नाथ ! नाऽतः परं ब्रुवे ॥२०॥
(इत्यादयः)
(भावना) वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् ।
कदाऽऽघ्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः ? ॥१॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ? ॥२॥
(योगशास्त्रे प्रकाशः ३)
(भगवदाश्रयः)
न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥
(अयोगव्यवच्छेदद्वात्रिंशिकायाम्) (उपमोत्प्रेक्षादयोऽलङ्काराः)
द्वयाश्रयमहाकाव्ये न जानू अरुजल्लङ्कां भ्रमतो यस्य मारुतेः ।
अहो आऽन्तं जिगमिषो रुजेत् तस्याऽपि जान्विह* ॥१/३२॥ (* अणहिल्लपुरपत्तने)
जङ्गन्म इत्युक्तिपरैः सपर्णध्वद्यष्टिभी रश्मिधृतानडुद्भिः । ग्राम्यैरविद्वद्भिरुदीक्ष्यतेऽसौ *धूखास्रदिन्दुर्दधिपिण्डबुद्ध्या ।।
२/४१)
84 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org