________________
(* द्यौरेव उखा-स्थाली, ततः स्रंसतेऽधः पततीति ङ्खास्त्रत्) - इत्यादयः ॥
त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये अफस्तस्य महार्थस्य पर्यपूर्यन्त सेवकाः । महासरोवरस्येव स्यन्दैरभ्यर्णभूमयः ।।१।१।४३॥ अत्राऽन्तरे च केनाऽपि सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं भ्रष्टसन्ध्याभ्रसन्निभम् ॥१।१।५८।। महाकाया महास्कन्धा महिषास्तोयवाहिनः । महीं प्राप्ता इवाऽम्भोदा जनानां चिच्छिदुस्तृषम् ।।१।१७०॥ अध्वन्यजन आजानुसंलग्ननवकर्दमः । आमुक्तमोचक इव प्रचचाल शनैः शनैः ॥१।१।९६।। वृन्दारकाणां हस्तेषु हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः श्रीमतां बालका इव ॥१।१।५३१॥ सरलाङ्गलिपत्राभ्यां सा पदाभ्यां पदे पदे । विकस्वराणि पद्मानि रोपयन्तीव भुव्यपि ॥१।२।७५॥
- इत्यादयः ॥
श्रीहेमचन्द्राचार्या यथाऽसाधारणपाण्डित्यालङ्कृताः शास्त्र पारगामिण आसन् तथैव सामान्यजनताव्यवहारै-र्लोकसाहित्येनाऽपि च पूर्णतया परिचिता आसन् । त्रिषष्टिशलाकापुरुषचरितमहाकाव्ये तैरेषा क्षमता पूर्णतयोपयुक्ताऽस्ति । एतस्याः श्रेष्ठमुदाहरणं, विवाहप्रसङ्गे वरं वधूमनुवरं वोद्दिश्य स्त्रीभिर्यानि कौतुकधवलगीतानि गीयन्ते तान्यपि तैरत्र महाकाव्ये यथाप्रसङ्गं निबद्धानि सन्ति । तेषामन्यतमदत्र प्रस्तुतमस्ति -
Jain Education InternationaFor Private
Personal Use Only www.jainelibrary.org