________________
सहसा स्मृतं यद्- 'अपुत्राया नार्या भर्तृमरणे सर्वमपि धनं - रुदतीवित्तमित्यभिधं - राज्यकोशे क्षिप्यते इति हि सर्वत्र परम्परागतो नियमोऽस्ति' । तेन चिन्तितं - 'यदि सर्वमप्यस्या धनादिकं राजा गृह्णीयात् तदा कथमेषा स्वनिर्वाहं कुर्यात् ? नूनमत्यन्तमयोग्योऽनुचितश्च नियमोऽस्त्ययम्' । ततो मनसैव तं नियममपाकर्तुं निश्चित्य तेन सा रुदती स्त्री भणिता - 'पुत्रि ! मा रोदी: । अहमेव सोऽभाग्यो राजा यस्य भयेन रोदिषि त्वम् । किन्तु मयाऽद्य तद् धनं त्यक्तुं निर्णीतमस्ति । अतः सुखेन गच्छ स्वगृहं, न कोऽपि त्वां कदाऽपि पीडयिष्यति' ।
ततो राजप्रासादमागत्य प्रातःकाले सर्वावसरे स्वयमेवोत्थाय घोषितं - ' अद्यप्रभृति राज्यकोशे रुदतीवित्तं नैव पतिष्यति, मया हि तादृशं धनं सर्वथा त्यक्तमस्ति' । एनां घोषणां श्रुत्वा मन्त्रिभिरन्यैश्च राजपुरुषैर्बहु प्रतिकृतं किन्तु कुमारपालेन दृढतया स्वनिर्णयं ज्ञापयित्वा तत् त्यक्तमेव, प्रतिवर्षं च ततः प्राप्यमाणानि कोटिशो रूप्यकाणि त्यक्तानि । करुणापरीतचेतसस्तस्येदं वृत्तं ज्ञात्वा प्रसन्नीभूता आचार्यास्तं प्रशशंसुर्यथा
-
-
-
न यन्मुक्तं पूर्वे रघु - नहुष - नाभागप्रमुखैः प्रभूतोर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् सन्तोषात् तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ रामचन्द्राचार्या अपि
अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥
इति तं स्तुवन्ति स्म ।
प्रजाकल्याणार्थं तेन विहितानामीदृशानां कार्याणां सर्वेऽपि
46
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org