________________
यदद्याऽपि समग्रेऽपि भारतवर्षे गूर्जरराज्ये एव सर्वाधिकतयाऽहिंसापालनं भवति, अत्रैव चाऽधिकाधिकजनाः शाकाहारिणो* विद्यन्ते ।
एतदनन्तरं तेन समग्रादपि निजराज्यान्मद्यपान-बूतमृगया-चौर्यादिदूषणान्यपि सर्वथा निवारितानि । एतत् सर्वमपि तेन कञ्चिद् धर्मविशेष पालयितुं नैवाऽऽचरितमपि तु केवलं निजप्रजानामिह-पारलौकिक-कल्याणार्थमेवाऽऽचरितम् । तत्र च सम्पूर्णमपि मार्गदर्शनं प्रेरणं चाऽऽचार्याणामेवाऽऽसीद् यैर्हि निष्पक्षतया दयाभावनया च केवलं विशुद्धं राजधर्मं कुमारपालद्वारा पालयितुमेव तत् कृतम् । अन्यच्च, सर्वेषामपि धर्मसम्प्रदायानामेतत् सर्वमपि हितकार्यत्वेन सम्मतमेवाऽस्ति । अतः 'कुमारपालं जैनर्मिणं कर्तुं ततश्च राज्याश्रयं प्राप्तुं हेमचन्द्राचार्यैः सर्वमप्येतत् कृत'मिति ये मन्यन्ते तत् सर्वथाऽनुचितमेव ।
अन्यदा मध्यरात्रे करुणं विलपन्त्याः कस्याश्चित् स्त्रिया रोदनं श्रुत्वा कुमारपालो निद्रातो जागृतः, तदुःखं दूरीकर्तुं च स्वयमेव तामन्वेष्टुं गतः । नगराद् बहिर्गतेन तेन स्मशानभूमौ दृष्टं यत् काचित् स्त्री सरोदनं विलपन्त्यस्ति, अन्या च तां सान्त्वयन्ती तत्रैवोपविष्टाऽस्ति । तेन तत्र गत्वा रोदनकारणं पृष्टा सा कथितवती यद् – 'अपुत्राया अस्या भर्ता वाणिज्यार्थं देशान्तरं गतस्तत्रैव मृत - इति वार्तां ज्ञात्वैषा रोदिति' । कुमारपालेन पृष्टं - 'किमर्थमेषाऽत्राऽऽगत्य रोदिति ननु ?' तयोक्तं - 'अद्याऽप्येषा वार्ता नाऽन्यैः कैश्चिज्ज्ञाता । यदि नगरे एवैषा रुद्यात् तदा सर्वैरपि ज्ञायेत, तथा च राजपुरुषैनियमानुसारमस्याः सर्वमपि धनं स्वायत्तीक्रियेत । अत एवैषाऽत्राऽऽगत्य रोदिति' । कुमारपालेन * अद्यत्वेऽपि गूर्जरराज्ये ६५% जनाः शाकाहारिणो राजस्थाने च ६०% जनाः ।
45 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org