________________
कृते बलिदानार्थं पशून् ददातु तस्यै'। एतच्छ्रवणेनाऽवाङ्मृका जाताः सर्वे यावत्, तावत् तैरुक्तं – 'किन्तु, तेषां पशूनां वधो नैव कर्तव्यः । अपि तु जीवन्त एव ते देव्यै समर्पयितव्याः । यदि तस्यास्तेषां मांसस्येच्छा स्यात् तदा सा स्वयमेव ग्रहीष्यति । यदि सा न ग्रहीष्यति तदा मन्तव्यं यत् सा सर्वेषां जन्तूनां मातृभूता कथं तेषां स्वसन्तानानां प्राणानपहृत्य मांसं गृह्णीयात् ?' इति ।
सर्वेषां निषेधे विरोधे च जातेऽपि कुमारपालेन गुरुवचोऽङ्गीकृत्य तथैव जीवन्तः पशवः समर्पिता देव्यै । आरात्रि च मन्दिरे एव स्थापितास्ते । द्वितीयदिने च प्रातस्तान् तथैव जीवन्तो दृष्ट्वा सर्वेऽपि जना हृष्टाः अभवन् । यद्यपि देव्याः पुरोहितेन कुमारपालो बहु भायितो भत्सितश्च तथाऽपि स स्वनिर्णये दृढोऽविचलश्चैवाऽवर्तत जीवदयामहिंसां च पालितवान् । तस्येदृशीं दृढतां दया-ऽहिंसादौ च गाढ श्रद्धां विलोक्य कविभिर्बहु प्रशंसितः स तद्गुरवश्च -
पूर्वं वीरजिनेश्वरे भगवति प्रख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात् यस्याऽऽसाद्य वचस्सुधां स परमः श्रीहेमचन्द्रो गुरुः ।।
(कविः श्रीधरः) तथा
आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्योजसा । कीर्तिस्तम्भनिभांश्चतुर्दशशती-संख्यान् विहारांस्तथा क्लृप्त्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ।।
(मन्त्री यशःपालः मोहराजपराजयनाटके) अस्याऽमारिघोषणस्यैव कुमारपालकारितस्य सुफलमिदं
44 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org