________________
हृद्गतम्
विश्वविश्रुतवैदुष्याणां कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्याणामाचार्यपदस्य नवमशताब्दी निमित्तीकृत्य नन्दनवनकल्पतरोः षड्विंशशाखायां तेषां जीवनचरितादेरालेखनं कृतमासीत् । तच्चाऽत्र नन्दनवनकल्पतरुप्रकाशन श्रेण्याः पञ्चमपुस्तकत्वेन स्वतन्त्रतया प्रकाश्यते इत्ययमानन्दस्य विषयः ।
एतन्माध्यमेन विद्वज्जगत् श्रीहेमचन्द्राचार्याणां गुणैर्वैदुष्येण प्रतिभया च परिचितं स्यादित्येतया भावनया प्रयत्नोऽयं कृतोऽस्ति । स च साफल्यं प्राप्नुयादित्याशासमानः
―
मुनि कल्याणकीर्तिविजयः
V
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org