________________
तदनन्तरं प्रायो वर्षाभ्यन्तर एवाऽर्थात् वैक्रमीये ११६७ तमे संवत्सरे गुरु भगवन्तः श्रीदेवचन्द्रसूरय इहलोकं त्यक्त्वा समाधिपूर्णमृत्युना स्वर्लोकमलञ्चक्रुः । आचार्याः श्रीहेमचन्द्रसूरयस्तु ततो विहृत्याऽहिल्लपुरपत्तनं प्राप्ताः ।
तदात्वे तत्र सिद्धराजो जयसिंहः शास्ति स्म । स ह्येकदा गजारूढः सन् राजमार्गेण सपरिवारो गच्छन्नासीत् । तावता तेन पुरतः समागच्छन्त आचार्याः श्रीहेमचन्द्रसूरयो दृष्टाः । अतः स तेषां सम्मुखं गत्वा सप्रणाममुक्तवान् - 'आचार्यवर्याः ! किं भवद्भिः किञ्चिद् वक्तव्यं वा ?' तदा प्रत्युत्पन्नमतिभिस्तैः सस्मितं कथितं " कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् ।
त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥" एतच्छ्रुत्वा सिद्धराजोऽतीव प्रसन्नो जातः । स तान् स्वीयमास्थानमलङ्कर्तुमामन्त्रितवान् ।
सिद्धराजो जयसिंहो हि चौलुक्यवंशीयो नृप आसीत् । अतः प्रथमं चौलुक्यवंशस्य परिचयं प्राप्नुयाम ।
वैक्रमीये ८०२ तमे संवति वनराजचापोत्कटेनाऽऽनर्त्तप्रदेशे स्वीयराज्यस्य चापोत्कटवंशस्य च स्थापनं कृतम् । तदैव च अणहिल्लपुरपत्तननामकं नूतनं नगरं तेन स्वराज्यस्य राजधानीतयाऽऽवासितम्। तस्य गुरवो हि जैनाचार्याः श्री शीलगुणसूरय आसन् मन्त्रिणश्चाऽपि जैना आसन् । वनराजश्च गूर्जरक्षत्रिय आसीत् । अतस्तद्राज्यं गौर्जरत्रेत्यभिधं प्रसिद्धम् ।* स हि ८६८ तमे वैक्रमाब्दे १०९ वर्षवयसि स्वपुत्रं योगराजं नृपत्वेन संस्थाप्य स्वर्गतः ।
+
योगराजोऽपि हि विंशत्यधिकशतवयाः ८९७ तमे संवति
* गौर्जरत्रमिदं राज्यं वनराजात् प्रभृत्यपि ।
स्थापितं जैनमन्त्र्याद्यैस्तद्वेषी नैव नन्दति ॥ ( प्रबन्धचिन्तामणि:)
+ ७५२ त: ८६८ तमं वैक्रमाब्दं यावत् तस्य जीवनम् ।
21
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org