________________
स्वपुत्राणामपराधस्य प्रायश्चित्तं कर्तुमग्नौ प्रविश्य मृतः ।
ततस्तत्पुत्रः क्षेमराजः ९२२तमं वर्षं यावद्देशं शासितवान् । तत: ९२२तमे वर्षे भूयडो नृपो जातः । तत: ९५१ तमे वर्षे वैरसिंहः ९७६तमे च वर्षे रत्नादित्यो राजाऽभवत् । ९९१ तमे वत्सरे सामन्तसिंहश्चापोत्कटो राजा जातः । किन्त्वेतावता हि कालेनैतेषां साम्राज्यं किञ्चिन्निर्बलमिव जातमासीत् ।
अथ च सामन्तसिंहस्याssस्थाने एकदा त्रयश्चौलुक्यवंशीया राजपुत्रा राज - बीज - दण्डकनामानः समागताः । तेषां च ज्येष्ठस्य राजस्याऽश्वपरीक्षण-शस्त्रचालनादिनैपुण्यं पराक्रमं च दृष्ट्वा प्रसन्नेन सामन्तसिंहेन स्वभगिनी लीलादेवी तस्य परिणायिता । राजोऽन्यदा कच्छदेशं गतवानासीत् । तदा तत्रत्येन नृपेण लाक्षाकेण सहसैव सोऽसिना निहतः । एतद् वृत्तं ज्ञात्वा तीव्रशोकाहता तत्पत्नी लीलादेवी तदसहमाना मृता । सा हि तदा गर्भवत्यासीत् । अतो मन्त्रिभिस्तदुदरं विदार्य कथमपि बालको रक्षितः । स हि मूलनक्षत्रे जातोऽतस्तन्नाम मूलराज इति स्थापितम् । स च स्वमातुलस्याऽत्यन्तं प्रियस्तत्पार्श्व एव वर्धमानो यथाक्रमं सर्वा अपि कलाः शिक्षितवान्, यौवनं च प्राप्तः ।
इतश्च, सामन्तसिंहो मद्यप आसीत् । अतो यदा कदापि पानमत्तः स मूलराजं नृपत्वेन स्थापयति स्म, मदापगमे तु स्वयं नृपो भवति स्म । राज्यमपि च तदानीं बहुभिः शत्रुभिराक्रान्तमासीत् । सामन्तसिंहस्य च तान् प्रतिकर्तुं सामर्थ्यं नाऽऽसीत् । अतो राजपुरुषाणां सूचनया साहाय्येन चैकदा मूलराजः स्वमातुलं हत्वा स्वयमेव नृपो जातो गूर्जरत्राराज्ये च चौलुक्यवंशं स्थापितवान् । १. असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो, जडप्रीति: कुर्मः फणिपतिरयं च द्विरसनः । इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्, समुत्तस्थौ कश्चिद् विलसदसिपट्टः स सुभटः ॥
(इति चौलुक्यक्षत्रियाणामुत्पत्तिः ।)
22
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org