________________
मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रय
च्छन्दो-ऽलङ्कृति-नामसङ्ग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ लोकोपकारकरणे स्वयमेव यूयं,
सज्जाः स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते शलाका
पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशच्चारु गिरां प्रपञ्चे ॥
(त्रिषष्टिशलाकापुरुषचरितमहाकाव्यप्रशस्तिः ।) ततः कुमारपालेनाऽपि महाग्रन्थस्यैतस्याऽन्येषामपि हेमचन्द्राचार्यविरचितानां ग्रन्थानां कृते भूरि व्ययं कृत्वा देशविदेशेभ्यस्तालपत्राणि आनायितानि, तेषु च सर्वेषामपि ग्रन्थानां बह्वयः प्रतिकृतयो लेखयित्वा एकविंशतिर्ज्ञानकोशाः कारिताः, विविधमहानगरेषु च प्रेषिताः ।।
एवं तेनाऽन्यान्यपि बहूनि सत्कार्याणि कृतानि यथा - स्वराज्ये प्रजानां सर्वाण्यपि शुल्कग्रहणानि निषिद्धानि, निरन्तरं दानशाला: प्रवर्तिताः, स्वपूर्वजैः कारितानां देवालयानां जीर्णोद्धाराः, प्रभूतनूतनमन्दिरनिर्माणं च, तारणदुर्गे चाऽतिविशालजिनालयस्य निर्माणमित्यादि कृतम् । तथा तस्य मनसि सर्वानपि दीनदुर्गतादिजनान् सुखीकर्तुं हार्दी भावनाऽऽसीत् साऽपि तेन यथाशक्ति पूर्णीकृता । हेमचन्द्राचार्या अपि कुमारपालस्य सत्कार्यैः प्रसन्नीभूताः सततं तं यथोचितं प्रेरणं ददति स्म ।
वैक्रमे १२२३ तमे संवति भृगुकच्छनगरे आम्रभट्टमन्त्रिणा निर्मापितस्य शकुनिकाविहाराख्य-जिनालयस्य प्रतिष्ठा हेमचन्द्रा* अद्याऽपि समग्रे राज्ये विशालतयाऽद्वितीयमिदं जिनमन्दिरं गूर्जरराज्ये
तारणगिरौ विराजते ।
5A
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org