________________
चार्यैः कृता । तदवसरे च राजा सर्वेऽपि च मन्त्रि-सामन्तादय उपस्थिता आसन् । प्रतिष्ठामहोत्सवोऽपि चाऽऽम्र भट्टेनाऽत्यन्तमुल्लसितहृदयेन भूरिद्रव्यव्ययं कृत्वा कृतः । तदा तस्याऽतीवोत्साहमुल्लासं च दृष्ट्वा नगरवास्तव्या सिन्धुदेवी तस्योपरि कुपिता सती तं विविधोपद्रवैः पीडयितुमारब्धा । तेन स मृतप्रायो जातः । तस्य परिवारजना बहु चिन्तिता जाताः । तदा केनचित् हेमचन्द्राचार्येभ्यो वृत्तमेतत् कथयितुं सूचितम् । परिवारजनैराचार्येभ्यस्तन्निवेदितम् । शीघ्रमेव चाऽऽचार्यैस्तत्र समागत्य स्वयोगबलेन सा सिन्धुदेवी निगृहीता, नियन्त्रिताऽऽम्रभट्टं च मोक्तुमादिष्टा । साऽपि तेषां तेजोऽसहमाना सद्य एवाऽऽम्र भट्ट मुक्त्वा स्वस्थानं गतवती । ततो यथोचितमुपचारैराम्रभट्टः स्वस्थो जातः ।
तदनन्तरं, कुमारपालेन स्वनगरे केचन जिनालया निर्मापिता आसन् । तेषां प्रतिष्ठा वैक्रमे १२२८-तमे संवति कृता । तत्र च शुभमुहूर्त-लग्नादिवेलां साधयितुं हेमचन्द्राचार्यैः स्वशिष्यो बालचन्द्राख्यो घटीयन्त्रं दत्त्वोपवेशित आसीत् । किन्तु गुरुद्रोहिणा तेन स्वीयमर्थं साधयितुं लग्नवेलातः पूर्वमेव कथितं यद् - 'लग्नवेला समागते'ति । ततश्चाऽऽचार्यैर्मन्त्रोच्चारणपूर्वं तत्क्षणमेव प्रतिष्ठा कारिता । तदैव च वटपद्रात् कानजीनामा श्रेष्ठी धावन्नेव समागतः प्रतिष्ठां च समर्थितां दृष्ट्वाऽऽचार्यपादयोविलग्य विलपितुं प्रवृत्तो यथा – 'प्रभो ! मे प्रतिमायाः प्रतिष्ठा नैव जाते'ति । तदा शीघ्रमेवाऽऽचायैर्बहिरागत्य नभसि दृष्टिपातः कृतो ज्ञातं च - 'लग्नवेला त्विदानीमेव समायाते'ति । 'बालचन्द्रेण च स्वार्थसाधनाय मृषैव कथितमासी'दिति । तैझटिति तं श्रेष्ठिनं सान्त्वयित्वा तत्प्रतिमायाः प्राणप्रतिष्ठा कृता कथितं च – 'अस्य श्रेष्ठिनः प्रतिमायाः प्रतिष्ठाऽत्यन्तं शुभलग्ने सञ्जाताऽस्त्यत एषा
57 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org