________________
भक्तिभृतचेतसा उज्जयन्तगिरेः प्रभासादिक्षेत्राणां च यात्राः कृत्वा स्वनगरं समागताः ।
अथ 'काव्यशास्त्रविनोदेन कालो गच्छति धीमता'मिति सुभाषितानुसारं प्रायशो राजानः स्वप्रशस्तिकाव्यानां श्रवणेन शृङ्गारिकश्लोकानां पठनादिभिश्च विनोदं प्राप्य कालं गमयन्ति । किन्तु कुमारपालनृपाय नैतत् सर्वं रोचते स्म । इतो हेमचन्द्राचार्या अपि स्वाध्याय-साहित्यसर्जनादिषु मग्ना कालं वृथा यापयितुं सज्जा नाऽऽसन् । अतः कुमारपालेन तेभ्यो विज्ञप्तं - 'प्रभो ! भवद्भिर्मयि बहूपकृतमस्ति । अधुनाऽन्यमप्युपकारं कुर्वन्तु । कृपया मत्कृते तीर्थकर-चक्रवर्ति-वासुदेव-प्रतिवासुदेव-बलदेवादीनां चरितानि संसृजन्तु यत्पठनेन मे कल्मषाणि विनश्येयुः' । तदा हेमचन्द्राचार्यैस्तस्य प्रार्थना स्वीकृता, सरसया सरलया मधुरया गिरा च त्रिषष्टेरपि पूर्वोक्तानां महापुंसां चरितानि निबद्धानि तानि च त्रिषष्टिशलाकापुरुष-चरित-महाकाव्यमिति प्रसिद्धानि । अत्राऽर्थे च ते स्वयमेवोचुर्यथा -
जिष्णुश्चेदि-दशार्ण-मालव-महाराष्ट्रापरान्तान् कुरूसिन्धूनन्यतमांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः । चौलुक्यः परमार्हतो विनयवान् श्रीमूलराजान्वयी
तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ।। पापर्द्धि-द्यूत-मद्यप्रभृति किमपि यन्नारकायुनिमित्तं तत् सर्वं निनिमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामिन् ! ऊर्त्यां निषिद्धं धनमसुतमृतस्याऽथ मुक्तं तथाऽर्हच्चैत्यैरुत्तंसिता भूरभवमिति समः सम्प्रतेः सम्प्रतीह ॥
पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्या साङ्गं व्याकरणं सुवृत्तिसुगमं चक्रुर्भवन्तः पुरा ।
Jain Education InternationaFor Privat55 Personal Use Only www.jainelibrary.org