________________
( १४ )
वसंतराजशाकुने-प्रथमो वर्गः ।
येन पक्षिपशवो विचक्षणाः संभवति न परप्रयोजने ॥ कर्मपाकपिशुनास्ततः कथं तत्र दैवमुदितं प्रवर्तकम् ॥ २५ ॥ आसीदिदं चास्ति भविष्यतीति पृच्छन्यथेच्छं पुरुषस्तिरश्वः ॥ त्रिकालदर्शी तदनुग्रहेण योगीव सर्वो भवति क्षणेन ॥ २६ ॥
॥ टीका ॥
वेति नवेति यस्य संशयो भवति मत्कृतं पूजादिकमयं मन्यते न वायं यत्नवान् अयं मामुपेक्षते । ईदृशेषु पुरुषेषु शकुनो न विशिष्यते विशेषेण फलप्रदायको न भवतीत्यर्थः ॥ २४ ॥ एते कथं जानतीत्याशंक्य प्रदर्शनपूर्वकमाह ॥ येनेति ॥ येन कारणेन परप्रयोजने परकृत्ये पक्षिपशवो विचक्षणाः प्रेक्षावंतः न संभवंति ततः कपाकपिशुनाः कर्मजनितशुभाशुभसूचकाः कथं स्युरित्याह । तत्रकर्मपाकपिशुनत्वे प्रवर्तकं दैवमुदितं कथितं पूर्वाचार्यैरित्यर्थः । अदृष्टप्रेरिताः पक्षिपशवस्तथाविधकार्येषु प्रवर्तन्त इत्यथः ॥ २५ ॥ आसीदिदमिति ॥ सर्वो जनः पुरुषः योगीव त्रिकालदर्शी भवति कथं क्षणेन स्वल्पकालेनेत्यर्थः । किं कुर्वन्पुरुषः पृच्छन् कान् तिरश्चः द्विकर्मकत्वात् द्वितीय कर्मापेक्षायामितीति किमासीत् इदं वस्तु वर्तते । इदमः प्रत्यक्षगतार्थवाचकत्वात् । किंचिद्भविष्यतीति कीदृशो जनस्त्रिकालदर्शीति भूतभविष्यद्वर्तमानं पश्यतीत्येवंशीलः स तथा केन तदनुग्रहेण शकुनानुग्रहणेनेत्यर्थः ॥ २६ ॥
॥ भाषा ॥
के नहीं माने हैं, ये शकुन यत्नवान् हैं कै ये मोकूं उपेक्षाकरे हैं, याप्रकार जापुरुषकं संदेह होय, उनपुरुषनमें शकुन विशेष करके फलको देवेवारो नहीं होय है. ॥ २४ ॥ येनेति ॥ जाकारणकरके पराये कार्यमें बडे निपुण पक्षी पशु ये नहीं होय तो कर्मजनित शुभ अशुभ फ लको ज्ञान कैसे होयं, ताकर्मफलके जितायवे में प्रवर्त्तक पूर्वाचार्यों ने देवकह्यो है, अर्थात् अदृष्ट जो प्रारब्ध ताकरके प्रेरेहुये पक्षी पशु ये तैसे ही कार्यनमें प्रवर्त्त होय हैं, ॥ २९ ॥ आसीदिदमिति ॥ संपूर्ण जन हैं सो पक्षिनकूं यथेच्छ भूतभविष्यवर्तमानपूछते संते शकुनके अनुग्रहकरके अल्पकाल करके ही त्रिकालदर्शीयोगीकी नाई होय. ॥ २६ ॥
Aho! Shrutgyanam