________________
( ४१२ )
वसंतराजशाकुने - सप्तदशो वर्गः ।
दिश्युत्तरस्यामुदिते दिनेशे पल्ली रटंती इविणारामाय ॥ मित्रागमाय प्रथमे च यामे हुताशभीत्यै दिवसस्य मध्ये ॥ २० ॥ अथापराह्णेभिमतोऽभ्युपैति प्रियो जनोऽभ्येति च वासरांते ॥ निशामुखे शिष्टसमागमः स्याद्यामे कलिः स्याद्विरुतेन पढ्याः ॥ २१ ॥ निधानलाभः प्रहरे द्वितीये स्याच्चौरभीतिः प्रहरे तृतीये ॥ निशावसानेऽपि च भाषमाणे स्यात्कुड्यमत्स्ये विपुला समृद्धिः ॥ २२ ॥ प्रातर्दिशीशाननिषेवितायां पीरुतैः सिध्यति चिंतितोऽर्थः ॥ दिनाद्ययामे स्वजनोऽभ्युपैति वृद्धिर्भवेद्वासरमध्यभागे ॥ २३ ॥
॥ टीका ॥
दिशीति ॥ उदिते दिनेशे उत्तरस्यां दिशि पल्ली रटंती द्रविणागमाय भवाते । प्रथमे 'च यामे उत्तरस्यां रटंती पल्ली मित्रागमाय स्यात् । तथा दिवसस्य मध्ये मध्याह्नका'ले उत्तरस्यां रटंती पल्ली हुताशभीत्यै अभिभयाय भवति ॥ २० ॥ अथेति ॥ अथ अपराह्णे तृतीयप्रहरे उत्तरस्यां पल्लयाः विरुतेन अभिमतः अभ्युपैति । वासरांते च सायमुत्तरस्यां दिशि पल्लया विरुतेन प्रियो जनः अभ्युपैति । तथा निशामुखे प्रदोषे उत्तरस्यां पल्ल्या विरुतेन शिष्टसमागमः स्यात् । निशायाः आद्ये यामे उत्तरस्यां पल्लयाः विरुतेन कलिः स्यात् ॥ २१ ॥ निधानेति ॥ निशायाः प्रहरे द्वितीये उत्तरस्यां कड्यमत्स्ये भाषमाणे निधानलाभः स्यात् । निशायाः प्रहरे तृतीये उत्तरस्यां कुड्यमत्स्ये भाषमाणे चौरभीतिः स्यात् । निशावसानेऽपि च उत्तरस्यां कुड्यमत्स्ये भाषमाणे विपुला समृद्धिः स्यात् ॥ २२ ॥ प्रातरिति ॥ प्रातः
॥ भाषा ॥ बांछितफलको लाभ होय ॥ १९ ॥ दिशीति सूर्यके उदय समय में पल्ली उत्तरदिशा में बाल तो द्रव्यको आगमन होय. दिनके प्रथम प्रहर में पल्ली बोले तौ मित्रको आगमन होय. दूसरे प्रहरमें उत्तर में बोलै तो अग्निको मय होय ॥ २० ॥ अथेति ॥ तीसरे प्रहरमें उत्तरमें बोले तो वांछित पुरुष आवे चौथे प्रहरमें उत्तर में बोलै तो प्यारो जन आवे और प्रदोष समय में उत्तर में बोले तो उत्तम जनको आगमन होय. रात्रिके प्रथम प्रहरमें उत्तरमें बोलै तो कलह होय ॥ २१ ॥ निधानेति ॥ रात्रिके दूसरे प्रहर में उत्तर में बोले तो धनको लाभ होय. रात्रिके तीसरे प्रहरमें उत्तर में बोले तो चौरको भय होय, चौथे "प्रहर में उत्तरमें बोलै तो बहुत समृद्धि होय ॥ २२ ॥ प्रातरिति ॥ प्रभात कालमें ईशान
Aho! Shrutgyanam