________________
(५१८) वसंतराजशाकुने-विंशतितमो वर्गः ।
शकुनप्रभावात् ॥ ९ ॥ आसीदिदं चास्ति भविष्यतीति प्रश्नत्रयं शाकुनिको विभिन्नम् ॥ विधाय यो वेत्ति फलानि तेषां त्रिकालदर्शी जगतीह स स्यात् ॥ १०॥ यस्यालये तिष्ठति शास्त्रमेतच्छ्रेयस्करं दुष्कृतनाशनं च ॥ विलेखितं दु:खदरिद्रहारि निकेतनात्तस्य बिभेति मृत्युः ॥ ११॥ दारियविद्रावणनामधेयमधीयते यत्र गृहे सदैव ॥ हठेन हत्वा विपदं वराकी निराकुलाः तिष्ठति तत्र संपत् ॥ १२॥
॥ टीका ॥ क्षात्राणंसच्छोभनोपायवृत्तिःआजीविकाएतयोदः।तथाऐहिकामुष्मिकसारभूतात् इहलोकपरलोकसारभूताच्छकुनप्रभावात्रिवर्गवृद्धिः वा सिद्धिः स्यात् । तत्र त्रिवर्गः धर्मार्थकामाः तेषां सिद्धि प्राप्तिः स्यादित्यर्थः॥९॥ आसीदिति ॥ यः शाकुनिका इदमासीत्पूर्वमभूतइदमस्ति संप्रति वर्तते । इदमग्रे भविष्यात संपत्स्यते । इतिप्रश्न त्रयं विभिन्न विभक्तं विधाय कृत्वा तेषां फलानि यो वेत्ति जानाति स इह जगति त्रिकालदर्शीभवति। त्रिकालमतीतवर्तमानभविष्यल्लक्षणंकालत्रयंपश्यतिसत्रिकाल दर्शीत्यर्थः ॥ १०॥ यस्यति ॥ यस्यालये यस्य गृहे एतच्छास्त्रं विलखितं तिष्ठति आस्ते तस्य निकेतनाद्भवनान्मृत्युर्यमो बिभेति । कीदृशमेतच्छास्त्रं श्रेयस्करं कल्याणकारकम् । पुनः कीदृशं दुष्कृतनाशनं पापापहारकम् । पुनः कीदृशं दुःखदरिद्रहारि दुःखं च दरिद्रं च अनयोईन्द्वः । ते हरतीत्येवंशीलम् । पुनः कीदृशं विले. खितं लिखितमित्यर्थः ॥ ११ ॥ दारिद्येति ॥ दारिद्यविद्रावणनामधेयमिदं शास्त्रं यत्र गृहे सदैव अधीयते पठ्यते तत्र वराकी शोचनीयामापदं हठेन हत्या संपनिराकुला निश्चला तिष्ठति । “वराकः शोचनीयः स्यात्" इति विश्वः॥१२॥
॥भाषा॥ आजीविका ये होय. या लोक परलोकके सारभूत शकुनको प्रभाव तातें धर्म अर्थ, काम इनकी वृद्धि होय वा प्राप्ति होय ॥ ९ ॥ आसीदिति ॥ जो शकुनो ये पहले होतो हुयो ये अब वर्ते है. ये अगाडी होय गो. इन तीनो प्रश्ननकं न्यारे २ भेद करके इनके फल जो जानै वो या पृथ्वीमें त्रिकालदर्शी जाननो ॥ १० ॥ यस्येति ॥ जा पुरुषके घरमें कल्याणका करबेवारो पापनको दूर करबेवालो दुःख दारिद्र्यको हरवेवालो. और लिखो हुयो होय ऐसो ये शकुनशास्त्र होय वाके स्थानतें यमराज भय मानो करै ॥ ११ ॥ दारिद्योति ।। दारिद्र्यविद्रावणनाम ये ग्रंथ है. जो याको अध्ययन करै जाके घरमें सदा स्थित रहै ता घरमें शोकके योग्य आपदाकू हठसूं दूर करके निश्चल संपदा करै ॥ १२ ॥
Aho !'Shrutgyanam
..