________________
( २४ )
वसंतराजशाकुने - तृतीयो वर्गः ।
न देवताधिष्ठितमंतरेण तिष्ठति केचित्पशुपक्षिणोऽस्मिन् ॥ हिंस्या न ते शाकुनिकेन घातात्कुध्यंति देव्यस्तदधिष्ठिता हि ॥ ५ ॥ हैमानि रौप्याण्यथ पैष्टिकानि तेषां स्वशक्त्या मिथुनानि कृत्वा ॥ अभ्यर्चयेत्पंचभिरेव तुष्टैस्तुष्यंति पुंसां शकुनांतराणि ॥ ६ ॥ यं बुध्यते योस्ति च यत्र देशे यत्रानुरागोऽनुभवोऽथ वा स्यात् ॥ स एव वा शाकुनकोविदेन भक्तेन शक्त्या शकुनोर्चनीयः ॥ ७ ॥
॥ टीका ॥
तिष्ठति । अधिष्ठातॄणां मुख्यत्वेनैतेषां मुख्यत्वमिति भावः ॥ ४ ॥ अन्यपशुपक्षिणो देवताधिष्ठिताः संति न वेत्याकांक्षायामाह ॥ न देवतेति । अस्मिन् लोके पशुपक्षिणः देवताधिश्रयमंतरेण देवताश्रयणव्यतिरेकेण न तिष्ठति सर्वेषामधिष्ठात्रयः संतीति भावः । अतः शाकुनिकेन ते न हिंस्या न मारणीयाः हि यस्मात्कारणात् घातात्तदधिष्ठितास्तदाश्रिता देव्यः कुप्यंति कोपं कुर्वन्तीत्यर्थः ॥ ५ ॥ मुख्यत्वे हेत्वंतरमाह ॥ हैमानिति ॥ हैमानि हेमनिष्पन्नानि रौप्याणि रूप्यनिष्पन्नानि पैष्टकानि माषचूणों पजनितानि मिथुनानि युगलानि स्वशक्त्या स्वविभवानुसारेण कृत्वा विधाय अभ्यर्चयेत् पूजयेत् । एभिः पंचभिस्तुष्टैः पुंसां शकुनांतराणि तुष्यंति ॥ ६ ॥ ॥ यं बुध्यते इति ॥ स एव शकुनः शाकुनकोविदेन केनचिच्छकुनज्ञानवता भक्तेन शक्या स्वसामर्थ्यानतिक्रमेण अर्चनीयः तच्छन्दस्य यच्छन्दसापेक्षत्वादाह यमि
॥ भाषा ॥
है याते इन पांचोनकुंभी सब पक्षीनमें मुख्यता है ॥ ४ ॥ इन पांचोनते और जे पशु पक्षी हैं उनपै देवता स्थित है वा नहीं हैं तापै कहै है ॥ न देवतेति ॥ या लोकमें कोई भी पशु पक्षी देवतानके आश्रयविना नहीं है, संपूर्ण पशु पक्षीके अधिष्ठाता देवता हैं यातें शकुन देखवे वा - रेकूं कोईभी मारनो योग्य नहीं है, क्यों कि इनके मारेते इनके ऊपरकी अधिष्ठातादेवी ते कोप करे है ॥५॥हैमानीति ॥ अपनी शक्तिके अनुसार सुवर्णके वा चांदी के वा उडदके चूनके मिथुन नाम जोडा जोडी बनाके फिर पूजन करै पूजन करेसूं प्रसन्न हुये जे पांचों देवता तिन करके पुरुषनकूं और भ शकुन प्रसन्न होय ॥ ६ ॥ यं बुध्यते इति ॥ शकुनी जा शकुनकूं जानतो होय, जा
Aho! Shrutgyanam