________________
चतुष्पदानां प्रकरणम् ।
( ३८३ )
भंभार वोन्मिश्रितहुंकृताढ्या वत्सोत्सुका हर्षपरीतचित्ताः ॥ ज्ञेयाः सुरभ्यः शभदाः सदैव गोभिः समानाः शकुने महिष्यः ॥ १४ ॥
॥ इति गोमहिष्यौ ॥
अजामजं दर्शन कीर्त्तनाभ्यां शंसति शब्दं च तयोः प्रयाणे ॥ अजा निशीथे यदि रौति तेन सर्वाणि गेही लभते सुखानि ॥ १५ ॥ .
॥ इत्यजाजौ ॥ ॥ टीका ॥
क्षते ॥१३॥ भंभेति ॥ एवंविधाः सुरभ्यः सदैव शुभदा भवंति । कथंभूताः भंभाखोन्मिश्रितहुंकृताढ्या इति भंभारवेण उन्मिश्रिता हुंकृतयः ताभिराढ्या वत्सोत्सुका इति स्ववत्सं द्रष्टुमुत्कंठिता इत्यर्थः । हर्षपरीतचित्ता इति हर्षेण परीतं व्याप्तं चित्तं यासां ताः तथा महिष्यः शकुने गोभिः समाना ज्ञेयाः ॥ १४ ॥ ॥ इति गोमहिष्यैौ ॥
अजामिति ॥ अजां तथा अजं दर्शनकीर्तनाभ्यां बुधाः शंसति । तयोः शब्दं च प्रयाणे शंसति । यदि निशीथेऽना रौति तेन गेही सर्वाणि सुखानि लभते ॥ १५ ॥ इत्यजाजौ ॥
॥ भाषा ॥
स्वामी की मृत्यु होय. जो मक्षिकानकरके व्याप्त वा वेष्टित गौ होय तो शीघ्र जलकी वृष्टि आवै ॥ १३ ॥ भंभेति ॥ भंभाशब्दकर मिलवां हुंकार करती होंय वा अपने बछडा देखवेकूं उत्साह करती होंय, अथवा हर्षयुक्त चित्त जिनके होंय ऐसी गौ सदा शुभकी देबेवारी जाननी और शकुन सभी गौकी समान जाननी ॥ १४ ॥
॥ इति गोमहिष्यौ ॥
अजामिति ॥ बकरिया बकरा इनको नाम वा दर्शन शुभ है. इनदोनोंनको शब्द प्रयाण समय में शुभ है. और जो बकरिया अर्द्धरात्रिपै शब्द करे तो वाको स्वामी सर्वसुख प्राप्त होय ॥ १५ ॥
॥ इत्यजाजौ ॥
Aho! Shrutgyanam