________________
( १८४ )
वसंतराजशाकुने - सप्तमो वर्गः ।
वामा गतिर्वामशरीर चेष्टा संस्थानमादावपसव्यभागे ॥ पतिं - वरायाः कथयंति लाभमन्याबलादुर्लभवल्लभस्य ॥ २७० ॥ श्यामानिवृत्तौ यदि याति वामा स्त्रीं प्राप्य तत्स्यात्पुरुषः कृतार्थः ॥ तारानिवृत्तौ यदि तत्प्रविष्टा सीमंतिनी वल्लभलाभतुष्टा ॥२७१॥
इति पोदकरुते विवाहप्रकरणमेकादशम् ॥ ११ ॥ आधानजन्मायतिकर्मपाकाञ्जानाति गर्भस्य यथा मनुष्यः॥ उत्पादिताशेषजनप्रतीतौ तथाभिदध्मः शकुने कुमार्याः २७२॥
॥ टीका ॥
यदि गृहीतमक्ष्या भवति तदा गर्भिणी स्यात् ।। २६९ ॥ वामेति ॥ यदि वामगतिः वामशरीरचेष्टा भवति आदौ अपसव्यभागे संस्थानं स्यात् तदा पतिंवरायाः अन्याऽ बला दुर्लभवल्लभस्य लाभं कथयति ।। २७० || श्यामेति ॥ निवृत्तौ यदि श्यामा वामा याति तदा स्त्रियं प्राप्य पुरुषः कृतार्थः स्यात् । यदि तारा भवति तदा वल्लभलाभतुष्टा सीमंतिनी स्यात् ॥ २७१ ॥ इति श्रीशत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्याय श्री भानुचंद्रविरचितायां वसंतराजटीकायां पोदकीरुते विवाहप्रकरण मेकादशम् ॥११॥ आधानेति ॥ कुमार्याः शकुने वयं तथा अभिदध्मः यथा मनुष्यः गर्भस्य आधानजन्मायतिकर्मपाकं जानाति तत्राधानं गर्भस्य स्थितेराद्यसमय संबंधः जन्मप्रसवः आयतिः उत्तरः कालः तस्मिन्कर्मपाकः सुखदुःखोपभोगः कस्यां सत्याम् उत्पादिताशेषजनप्रतीताविति उत्पादिता अशेषजनानां समस्तजनानां या
॥ भाषा !!
भक्ष्यस्तु ग्रहण करे होय तो कन्या गर्भिणी होय ॥ २६९ ॥ वातेति ।। जो वामागति होय घामशरीरकी चेष्टा होय प्रथम अपसव्य भागमें स्थित होय पीछे पूर्वको सो होय तो पतिकूं घर लाई जो कन्या ताके और स्त्रीको दुर्लभ बल्लभ ताको लाभ कहे हैं ॥ २७० 11 श्यामेति ॥ निवृत्ति में जो श्यामा वामा आवे तो स्त्री प्राप्त होय कर पुरुष कृतार्थ होय जो निवृत्तिमें तारा होय तो कन्या भर्तारके लाभकरके प्रसन्न रहे. और पुत्रवती होय " २७१ ॥ इति श्री शकुनवसंतराज भाषाटीकायां पोदकीरुते विवाहप्रकरणमेकादशम् ॥ ११ ॥
आधानेति । जैसे मनुष्य सर्वजननकी प्रीति जामें ऐसे गर्भको आधान, और जन्म, और मृत्यु इनमें कर्मविपाकको फल जो सुखदुःखको उपभोग इन संपूर्णकूं जान हैं और
Aho! Shrutgyanam