________________
(२७०) वसंतराजशाकुने-दादशो वर्गः। नैर्ऋत्यभागे च यदि प्रभाते करोति काकः सहसा विरावम्॥ क्रूरं ततः कर्म किमप्युपैति द्यूतागमे मध्यमिका च सिद्धिः॥ ॥ १६ ॥ प्रातः प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः ॥ स्त्रीवस्त्रभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तथा स्यात् ॥ १७ ॥ ध्वाक्षे सशब्दे पवनालयस्थे वस्त्रानपानाभिमतागमाः स्युः ॥ पांथागमो ब्राह्मणवृत्तिनाशः स्यादन्यदेश गमनं स्वदेशात् ॥१८॥ दिश्युत्तरस्यां सरवः प्रभाते निरीक्ष्यमाणो बलिभुङ् नराणाम्॥ ददाति दुःखं भुजगाच्च भीति दरिद्रतां नष्टधनेष्वलाभम् ॥१९॥
॥टीका ॥ पुनः रम्येण स्वरेण रुवनिष्टागमयोषिदाप्तीः च ॥ १५ ॥ नैर्ऋत्य इति यदि नैर्ऋत्यभागे प्रभाते काकःसहसाङ्करं विरावं करोति तदा किमपि कर्म उपैति दंडागमो भवति कार्यस्य च सिद्धिर्मध्यमिका स्यात् ॥ १६ ॥प्रातरिति ॥ यदि प्रातः प्रतीच्या पश्चिमायां काकः रौति तदा ध्रुवं वारिवाहः वर्षति तथा स्त्रीभृत्यभूभृत्पुरुषागमश्च स्यात् कलत्रेण समं कलिश्च ॥१७॥ ध्वाक्ष इति ॥ पवनालयस्थे ध्वाक्षे सशब्दे सति वस्त्रानपानाभिमतागमाः स्यु तथा पांथागमः ब्राह्मणवृ. त्तिनाशः स्वदेशादन्यदेशे गमनं स्यात् ॥१८॥ दिशीति ॥ यदि उत्तरस्यों दिशि प्रभाते सरवः बलिभुगिरीक्ष्यमाणः स्यात्तदा जनानां दुःखं ददाति भुजगाच्च भीति
॥ भाषा॥
शामें काक शब्द करे तो अतिदुःख होय. और कठोरशब्द करे तो रोगी मृत्यु करे और मधुरस्वर करके इष्टजनको आगम, और स्त्रीकी प्राप्ति करै ॥ १५ ॥ नैर्ऋत्य इति । जो काक प्रभातसमयमें नैर्ऋत्यकोणमें क्रूर शब्द करै तो कोई दंड मिलै. और कार्यकी सिद्धि मध्यम होय ॥ १६ ॥ प्रातरिति ॥ जो काक प्रातःकाल पश्चिमदिशामें शब्दकरे तो निश्चय मेघवर्षा करे, और स्त्री वस्त्र राजा वा कोई पुरुष इनको आगम होय. और स्त्रीकरके कलह होय ॥ १७ ॥ ध्वांक्ष इति ॥ वायव्यकोणमें काक बोलै तो वस्त्र अन्न पान वांछितको आगमन होय, और पांथको आगम होय. और ब्राह्मणकी वृत्तिको नाश होय., अपने देशते अन्यदेशमें गमन होय ॥ १८ ॥ दिशीति ॥ जो काक उत्तर दिशामें शब्द करतो दीखे तो मनुष्यनकू अति दुःख देवे. और सर्पते भीति करे. दारद्रता करे.
Aho! Shrutgyanam