________________
(३७४) वसंतराजशाकुने त्रयोदशो वर्गः।
दक्षिणेन यदि पार्थिवमाप्यं शब्दमुच्चरति तच्चलितानाम् ॥ विग्रहो भवति निग्रहकारी कायकंपजनिता यदि वा भीः॥ ॥ १९० ॥ मारुते गगनजेऽथ खे वा भाषिते सति भवत्यतियुद्धम्।।मौलिकेषु पतितेषु भवेयुः प्राणिनां मरणभंगभयानि ॥ १९१॥ तैजसोऽनिलरवोऽथ यदा स्यात्तद्वदंति मरणार्थविनाशौ॥शोभनों भवति दक्षिणयायी वामगो रणभयादिषु शस्तः ॥ १९२॥ यः सेवितुं गच्छति तस्य भौममाप्यं च वामे पुरतोऽथ वापि ॥ करोति शब्दं यदि तद्भवेतां प्रभुप्रसादो महती च लब्धिः ॥ १९३॥
॥ टीका ॥
दक्षिणेति ॥ यदि दक्षिणेन पार्थिवमाप्यशब्दमुच्चरति तच्चलितानां विग्रहो भवति कीहनिग्रहकारी दुःखप्रद इत्यर्थः । यदि वा कायकंपजनिता भीर्भवति॥१९॥ मारुत इति ॥ मारुते गगनजे रवे भाषिते सति अतियुद्धं भवति मौलिकेषु पतितेषु प्राणिनां मरणभंगभयानि भवेयुः॥ १९१ ॥ तैजस इति ॥ यदा तैजस: आनिलरवःस्यात् तदा मरणार्थविनाशी मरणं च अर्थविनाशश्च भवतः इति वं. दति । दक्षिणयायी शोभनो भवति । वामगः रणभयादिषु शस्तः॥ १९२ ॥ यः सेवितुमिति ॥ यः पुमान्सेवार्थ गच्छति तस्य यदि वामेऽथ वा पुरतः भौमं आप्यं च शब्दं करोति तदा प्रभुप्रसादःमहती चं लब्धिर्भवति॥१९३॥
॥ भाषा ॥ आकाश शब्द होय तो लाभ की हानि होय. जो आकाश शब्द होय. तो कलह करावे. मारुत ते हुयो शब्द मृत्यु करै, और दक्षिणभागमें आकाशते हुयो शब्द होय तो विघ्न होय. अथवा अधिक रोग करे ॥ १८९॥ दक्षिणेति ॥ जो दक्षिणमें होयकर पार्थिव आप्य ये दोनों शब्द उच्चारण करे तो गमन करबेवारेनषं दुःखको देबेवारो विग्रह होय. जो देहकू कंपायमान करै तो भय होय ॥ १९०॥ मारुत इति ।। जो पिंगल मारुत आकाश इन ते हुये शब्द उच्चारण करै तो अति घोर युद्ध होय. जो वो मस्तकके केशपतन करै तो प्राणीनकू मरणभंग भय ये करै ॥ १९१ ॥ तैजस इति ॥ जो पिंगलके तैजस पवन ये दोनों शब्द होंय तो मरण और अर्थको नाश ये करै, और पिंयलको दक्षिणभागमें गमन शुभ है. और वामभागमें गमन मरण भयादिक करै ॥ १२॥ यः सेवितुमिति ॥ जो.
Aho! Shrutgyanam