________________
वसंतराजशाकुने - तृतीयो वर्गः ।
चंचपुटग्रस्तमहाभुजंगं भुजंगरत्नाभरणाभिरामम् ॥ हिरण्यरोचिः खचितांतरिक्षं तार्क्ष्य स्मरेद्वायसमर्चयित्वा ॥ १९ ॥ शवाधिरूढां नृकपालहस्तां शूलायुधां भूतिसितागयष्टिम् ॥ उलूकचिह्नां नरसुडमालां निर्मासदेहां रुधिरं पिबन्तीम् ॥२०॥
(३०)
॥ टीका ॥
।
था। पुनः कीदृकुंडलवान्कर्णाभरणयुक्तः । पुनः कीदृक्किरीटी किरीटं मुकुटी बततेयस्य स तथा । पुनः कीदृक् विचित्रवर्ण इति विचित्रो विविधरूपो वर्णो यस्य स तथा आजानुकनकगौर इत्यर्थः ॥ १८ ॥ चंच्विति ॥ वायसमर्चयित्वा तार्क्ष्य गरुडं स्मरेत् कीदृशं चंचूपुटग्रस्त महाभुजंगमिति चंचूपुटेन ग्रस्तो गृहीतो महाभुजंगो येन स तथा । पुनः कीदृशं भुजंगरत्नाभरणाभिराममिति भुजंगरत्नानि मुख्य भुजंगाः तान्येव आभरणानि तैरभिरामं मनोहरं यद्वा भुजंगरत्नानि भुजंगमणयस्तेषामाभरणानीति पूर्ववत् । पुनः कीदृशं हिरण्यरोचिःखचितांतरिक्षमिति हिरण्यं सुवर्णं तस्य रोचिरिव रोचिः कांतिस्तया खचितं वर्णपरावर्तनेन अंतरिक्षं गगनं येन स तथा ॥ १९ ॥ शवाधिरूढामिति ॥ पिंगलिकां प्रपूज्य चंडीं स्मरेत् । कीदृशीं शवाधिरूढामिति शवं मृतकं तत्राधिरूढां स्थितां पुनः कीदृशीं नृकपालहस्तामिति नृणां कपालानि हस्ते यस्याः सा तथा । पुनः कीदृशीं शूलायुधामिति शूलमेवायुधं यस्या सा तथा । पुनः कीदृशीं विरूपां भूतिसितांगयष्टिमिति भूतिर्भस्म तया सिता श्वेता अंगयष्टिर्यस्याः सा तथा । पुनः कीदृशीं उल्लूकचिह्नामिति उल्लूकानां घूकानां चिह्नं लक्ष्म यस्याः सा तथा । तदाकृतिमदाभरणयुक्तामित्यर्थः । पु
॥ भाषा ॥
नकरन योग्य है ॥ १८ ॥ चंच्विति ॥ वायस जो काक ताको पूजन करके फिर चोंचकरके ग्रास कियो है महाभुजंग सर्प जाने और भुजंग रत्न जे मुख्य भुजंग तेही आभरण तिनकरके मनोहर अथवा भुजंगरत्न जे सर्पमणि तिनके आभरण तिनकरके अभिराम कहिये सुंदर और फिर हिरण्य जो सुवर्ण ताकी कांतिकरके व्याप्त कियो है आकाश जाने ऐसे तार्क्ष्य जो गरुडजी ताय स्मरण करे ॥ १९ ॥ शवाधिरूढामिति ॥ पिंगलिकाको पूजन करके फिर चंडीकूं स्मरण करे अब चंडीको स्वरूप कहे हैं चंडीकैसी है शव जो मुरदा तापे
Aho! Shrutgyanam