________________
(१७०) वसंतराजशाकुने-सप्तमो वर्गः।
राज्ञो राज्यं कुर्वतः कृष्णिकाया एताश्चेष्टाः सौख्यदा दुःखदास्तु॥ स्युर्व्यत्यासान्मिश्रभावात्तु तासां मिश्रीभूते सौ ख्यदुःखे भवेताम् ॥ २१८ ॥ श्यामानुलोमा यदि तोरणांते वामा च तारा न तथा निवृत्तौ ॥ ददाति राज्यं सुचिरं तदानीं युद्धान्वितं सापि च युध्यमाना ॥ ॥२१९ ॥ वामा न तारा न च तोरणांते निवृत्तिकाले यदि चोद्धृता तत् ॥ स्याद्राज्यमन्यावनिपालमौलिमालारजोभूषितपादपीठम् ॥ २२० ॥
॥ टीका ॥
दिक्चेष्टास्थितिभिः शांतं तदा इह लोके तदाज्यं स्थिरं भवति ॥२१७॥ राज्ञो राज्यमिति ॥ राज्यं कुर्वतः राज्ञः एताः श्रेष्ठाः चेष्टाः सौख्यदाः स्युः । तु पुनः आसां व्यत्यासादुःखदाः स्युः। तथा तासां मिश्रभावातु मिश्रीभूते सौख्यदुःखे भवे. ताम् ॥ २१८ ॥ श्यामेति ॥ यदि तोरणांते अनुलोमा तारा भवति तथा निवृत्ती वामा न तारा तदानी राज्यं सुचिरं भवति । अपि च सा युध्यमाना चेद्युद्धान्वितं राज्यं यच्छति ॥ २१९ ॥ वामेति ॥ तोरणांते तोरणसंबंधिनी वामा न च तारापिन तथा निवृत्तिकाले चेदुद्धता स्यात्तदा राज्यं भवेत् । कीदृग् अन्यावनिपालमौलिमालारजोभ्यर्चितपादपीठमिति अन्येवनिपालाः राजानः तेषां मौलयः शिरांसि तेषां मालाः सजः तासां रजांसि परागाः तैरभ्यर्चितं पूजितं पादपीठं यत्र
॥ भाषा।
होय तो वा राजाको राज्य चिरकाल तांई स्थिर होय ॥ २१७ ॥ राज्ञो राज्यामिति ॥ राज्यकरबेवाले राजाकू ये कही हुई चेष्टा सुखकी देबेवाली है इनते विपरीत चेष्टा होय तो दुःखकी देबेवाली. होय और जो ये चेष्टा मिलवां होय तो सुखदुःख दोनों होय ॥ ॥ २१८ ॥ श्यामति ।। जो तोरणके अंतमें अनुलोमा तारा होय और तहांसू निवृत्त होती समय. वामा भी न होय और ताराभी न होय तो चिरकालपर्यंत राज्य होय. और जो पादको युद्ध करती दीखै तो युद्धसहितराज्यदेवै ॥ २१९ ॥ वामेति ॥ तोरणांतमें वामा भी नै होय और तारा भी न होय और निवृत्तिकालमें जो उद्धृता तारा होय तो पृथ्वीपति राज
Aho ! Shrutgyanam