________________
( ५६ )
वसंतराजशाकुने चतुर्थो वर्गः ।
नीडप्रसक्तो रतमांसलुब्धो भीतः प्रमत्तः क्षुधितो रुगार्तः ॥ तथा नवाऽलोचनमंतरेण ग्राह्या न नद्यंतरितास्तथापः ॥ ॥ ४६ ॥ अश्वोष्ट्रमार्जारखंरो वराहः शशो मृगो वा शिशिरे व्यलीकाः || हेमंतकाले महिषर्क्षसिंहबिलेशयद्वीपिशिशुप्लवंगाः ॥ ४७ ॥
॥ टीका ॥
नीडेति ॥ नीडः कुलायः तत्र प्रसक्तः निद्राप्रसक्त इत्यर्थः “कुलायो नीडमस्त्रिया म्" इत्यमरः । रते मैथुने मांसे च लुब्ध आसक्तः रतं च मांसं च रतमांसे तयोर्लुब्धः रतमांसलुब्धः पूर्व इंद्रः पश्चात्तत्पुरुषः भीतः भयाक्रांतः प्रमत्तः आलस्यवान्क्षुधितः बुभुक्षितः रुगार्तः रोगाक्रांतः एतादृक् शकुनो न च ग्राह्यः तथा आलोकनमंतरेण ग्राह्यः अनुमानादयमेव भविष्यतीति ग्रहणप्रतिषेधः तथा नद्यंतरितो नद्या अंतरिलः अंतरं प्रापितः न ग्राह्यः ॥ ४६ ॥ अश्वोष्ट्रेति ॥ शिशिरे ऋतौ एते शकुनाः व्यलीका व्यर्था ज्ञेया इति शेषः के ते इत्याह अश्वेति अश्वोष्ट्रमार्जारखरा अश्वश्च उष्ट्रश्च मार्जारश्च खरश्चेतरेतरद्वंद्वः । अवां हयः इः उष्ट्र: मरुस्थलीप्रसिद्धः मार्जारः ओतुः खरो गर्दभः वराहः मूकरः शशः मृदुलोमकः प्रतीतः मृगो हरिण एते हेमंतकाले महिषर्क्षसिंहविलेशयद्वीपिशिशुप्लवंगाः व्यलीका भवंति इत्यन्वयः तत्र महिषः कासारः ऋक्षः ऋच्छः सिंहः पंचास्यः विलेशयाः बिलवासि
॥ भाषा ॥
नीड इति ॥ जो निद्रामें आसक्त होय, और मैथुनमें मांसमें लुभायमान होय और भययुक्त होय आलस्यवान् होय मतवालो होय और भूखो होय रोगयुक्त होय ऐसे शकुन नहीं ग्रहण करने तैसे ही आंधरो होय तोभी नहीं ग्रहण करनो अनुमानते होय ही जायो ऐसे भी नहीं ग्रहण करनो और तैसे ही नद्यंतरित जल अर्थात् नदी करके अंतर प्राप्त हुयोजल नहीं ग्रहणकरनो ॥ ४६ ॥ अश्वोष्टइति ॥ अश्व, ऊंट, बिल्ली, खर, सूकर, शश नाम वर्गीस, हरिण ये शकुन शिशिरऋतुमें व्यर्थ हैं और महिष, ऋच्छ, सिंह बिलनमें रहैं हैं स - पदिक ते द्वीपनाम चित्रक ताको बालक अथवा कोई वनचर वानर ये शकुन हेमंतकाल में
१ छंदोभंगभिया खरो वराहइति पाठ: यथार्थतस्तु खरवराहा इत्येव युज्यते पृषोदरादित्वं वा कल्प्यम् ।
Aho! Shrutgyanam