________________
पोदकीरुते शांतप्रकरणम् ।
( ११३ )
एषां च मध्यात्कुकुबादिकानां जातेषु शांतेष्वधिकाधिकेषु ॥ शुभं नराणामधिकाधिकं स्यात्तद्वत्प्रदीप्तेष्वशुभं प्रदिष्टम् ॥ ॥ ४९ ॥ एवंविधं शांतमथ प्रदीप्तं जानाति यः शाकुनिकः स एव ॥ शान्तप्रतिस्यच यो विशेषं न वेत्ति नो वेत्ति स किंचिदेव ॥ ५० ॥
इति पोदकीरुते शान्तप्रकरणं द्वितीयम् ॥ २ ॥
॥ टीका ॥
पुनः एतदेव पूर्वोक्तं सप्तप्रकारं विपरीतभावादीप्तं कथयति ॥ ४८ ॥ एषामिति ॥ एषां सप्तानां ककुवादिकानां मध्यादधिकाधिकेषु शांतेषु जातेषु तदा नराणामधिकं शुभं स्यात् । सप्तसु शांतेषु का गणना । तद्वत्प्रदीप्तेषु अधिकाधिकेषु जातेष्वशुभमधिकं प्रदिष्टं कथयति ॥ ४९ ॥ एवंविधमिति ॥ एवंविधं पूर्वप्रतिपादितं शांतमथ च प्रदीप्तं यो जानाति स एव शाकुनिकः शकुनज्ञाता । यः शांतप्रदीप्तस्य विशेषं न वेत्तिस न किंचिदेव वेत्ति किमपि न जानातीत्यर्थः ॥ ५० ॥
इति श्रीमहोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते द्वितीयं शांतप्रदीप्तं प्रकरणम् ॥ २ ॥
॥ भाषा ॥
एषामिति ॥ ये दिक्कालादिक सात कहे इनके मध्यमें अधिक अधिक शांत शकुन होय तो मनुष्यनको अधिक शुभ होय, और जो ये सातोन में प्रदीप्त अधिकाधिक होय तो अशुभ अधिक कहनो ॥ ४९ ॥ एवंविधमिति ॥ याप्रकार कहे जे शांत प्रदीप्त तिन जो जाने सोही शकुनी श्रेष्ठ है, और शांतप्रदीप्तके भेदकूं नहीं जाने है सो पुरुष कछुभी नहीं जाने है ॥ ५० ॥
इति श्रीजटाशंकरतनयज्योतिर्विच्छ्रीधर विचितायां वसंतराजभाषाटीकाय पोदकीरुते शांतप्रकरणं द्वितीयम् ॥ २ ॥
Aho! Shrutgyanam