________________
मिश्रित प्रकरणम् ४.
(३९)
रक्षामविघ्नं धनभृत्यवृद्धिं सिद्धिं तथारोग्यमनिष्टनाशम् ॥ संमानितो यच्छति येन यस्मान्नोलंघ्य यायाच्छकुनं विरुइम् ॥ ९ ॥ आद्ये प्रयत्नं शकुने विदध्यात्सिद्धिस्तथा तत्र यतो नराणाम् ॥ कृते प्रवासे शकुनो विरुद्धो यस्मि न्भवेत्तत्र दिने न गच्छेत् ॥ १० ॥ समीपभूतैरचिरेण सिद्विश्विरेण दूरे शकुनैः प्रजातैः ॥ स्वस्थानसंस्थैर्बलिभिः स्वकाले जातैः फलं सम्यगसम्यगन्यैः ॥ ११ ॥
॥ टीका ॥
नाः चिरकालेन स्वल्पं फलमित्याहुः ॥ ८ ॥ रक्षेति ॥ येन कारणेन संमानितः शकुन एतान् यच्छति ददाति । एतान्कानित्याह । रक्षामिति शरीरस्येति शेषः । अत्र विघ्नमिति अंतरायापगमः धनभृत्यवृद्धिमिति धनं द्रव्यं भृत्याः सेवाकृतः तेषां वृद्धिः वर्धनं सिद्धिः निष्पत्तिः स्वसमीहितकार्यस्येति शेषः । तथारोग्यं नीरोगता अनिष्टनाशमिति अनिष्टस्य अनभिलषितस्य नाशः तस्मात्कारणाद्विरुद्धं शकुन मुल्लंघ्यनो या यात्॥९॥ आद्ये इति ॥ गृहनिर्गमनानंतरमेव शुभे जाते शकुने गमनाय प्रयत्नं कुर्यादित्यर्थः यतः यस्मात्कारणात्तथा सति शुभे शकुने सतीत्यर्थः । तत्रेति तस्मिन् प्रयाणे सिद्धिः स्यात् तथा कृते प्रवासे गमने विरुद्धः शकुनः यस्मिन् दिने भवेत् दिने तत्रेति तस्मिन्दिने न गच्छेत् । आक्रुध्य कार्ये तु वारत्रयं विलोकनीय इति पूर्वमेव प्रतिपादितम् ॥ १० ॥ समीपेति ॥ समीपभूतैः ग्रामनिर्गमनानंतरं ग्राम
॥ भाषा ॥
फलवान् कार्य होय ॥ ८ ॥ रक्षामिति ॥ जा मनुष्य करके सन्मान करोगयो शकुन इतनी वातनकूं करे है कौनसी देहकी रक्षा और निर्विघ्नता और धन और सेवा के करनेवाले इनकी वृद्धि और सिद्धि अपने समान हितकारी और आरोग्यता अनिष्टको नाश इतनी बातें करे हैं याते विरुद्ध जो शकुन ताकूं उल्लंघन करके नहीं गमन करें ॥ ९ ॥ आद्ये इति ॥ घरसूं निकसे पीछे जो शकुन होय तो शीघ्र ही गमन करजाय जो शुभशकुन होय तो वा यात्रामें तत्काल सिद्धि होय निश्चय और गमन करे पै शकुन विरुद्ध होय तो वा दिनागमन न करे पूर्व कह्यो जैसे तीन पोत अवलोकनकरनो योग्य है सो रीति पहले कही है
१० ॥ समीपेति ॥ जा मनुष्यकूं ग्रामते निकसतेंही तत्काल हुये जे शकुन तिन करके
Aho | Shrutgyanam