Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
(१०) ... २४ नाभेयनेमिद्विसंधानकाव्यम् । जैनप्रन्थावल्यनुसारम् । तथा मुनिजिनविजयमहाशयाः। पं. हिरालालमतेनायं ग्रन्थः द्रोणाचार्यशिष्यसुराचार्यकृतः ( जै. इ. ११३६)
२५ द्विजवदनचपेटा-अयमेव ग्रन्थो वेदाङ्कश इत्यप्यभिधीयत इति पं. हरगोविन्ददासमतम् । श्रीहरिभद्रसूरिकृतोऽपि द्विजवदनचपेटेति ग्रन्थो वर्तते। - २६ चन्द्रलेखविजयप्रकरणम् । जैनग्रन्थावली पृ.३२९एतदनुसारम् । - अयि श्रेष्ठा विद्वांसः। आर्हतमतप्रभाकरपरिचये प्रतिश्रुतानुसारं प्रथमोऽयं किरणः प्रमाणमीमांसाख्यः प्रकाश्य श्रीमत्पुरतो निधीयते । एतप्रकाशने पुस्तकद्वयं लब्धम् ।।
१ प्राच्यविद्यासंशोधनमन्दिरम् (भाण्डारकर ओरिएंटल रीसर्च इं.) प्राचीनं लिखितं च । अतीवाशुद्धम्पूर्णं च । . २ श्रेष्ठि माणिकलालमनसुखभाईमुद्रापितम् अधुना दुर्लभमपि मुनिजिनविजयजीकृपाप्रसादाल्लब्धम् ।
पुस्तकद्वयेनाप्युपकृता वयं तत्तन्महाशयानुग्रहभरान्वहामः । एवं पुस्तकद्वयानुसारं विलिख्य शुद्धं पुस्तकमर्थभेदविधायिपाठान्तराणि संगृहीतानि टिप्पनीरूपेण । तथैव टिप्पन्यां १ दुर्गमशब्दार्थः २ पौराणिकदृष्टान्ताः ३ लौकिकन्यायाश्च तथा विशदीकृता यथा ग्रन्थार्थजिज्ञासूनांसौकर्यं स्यात् । किं च प्रमाणार्थ ग्रन्थकृदाहतानि वचांसि तत्तद्ग्रन्थस्थलनिर्देशपूर्वकमधो निर्दिष्टानि स्थूलाक्षरैश्च मुद्रितानि येन प्रकरणादिज्ञानं सुलभं भवेत् जिज्ञासूनाम् । प्रयतमानैरप्यस्माभिः कानिचिद्वचनस्थलानि नोपालभ्यन्त तानि तथैव स्थूलाक्षरैर्निर्दिष्टानि । यैर्महाशयैरुपलभ्येत पूर्वोक्तवचनस्थलादिकं तैरनुग्रहबुध्द्या प्रेष्यते चेत् लिखित्वास्मत्सविधे तर्हि पुनर्मुद्रणावसरे तदुपयोगेनात्मनः कृतकृत्यता संपाद्येत । कानिचिद्वाक्यानि नोपलभ्यन्ते यथायथं किं तु तदर्थसमानि ग्रन्थेषु केषुचित लभ्यन्ते तद्ग्रन्थनामानि स्थलनिर्देशपूर्वकं टिप्पन्यां दर्शितानि । दृढं विश्वसिमो यद्गन्थकृदादृतानुपूर्वीघटितानि भवेयुरेव कुत्रचित् इमानि वाक्यानि तान्यपि यदि कैश्चित्कृपया प्रेष्यन्ते तर्हि पुनर्मुद्रणावसरे मुद्रापयिष्येरन् । एवं त्रिविधमपि स्थूलाक्षरमुद्रितं, उपलब्धानुपलब्धोपलब्धसमवाक्यजातं परिशिष्टे दर्शनसौकर्याय मुद्रापितम् । प्रास्ताविके

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 136