Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 26
________________ भद्रबाहु - वराहप्रबन्धः । ३ साक्षाद्भास्कर एवाभूत् । तेनाहं भाषितः - वत्स ! तव दृढनिश्चयतया लग्नग्रहभक्त्या च बा" तुष्टोऽस्मि । रविरहम्, वरं वृणीष्व । अथ मयोक्तम्- खामिन् ! यदि प्रसन्नोऽसि, तदा निजविमाने चिरं मामवस्थाप्य', सकलमपि ज्योतिश्चक्रं मे 'दर्शय । अथाहं मिहिरेण' चिरं स्वविमानस्थः खे 'भ्रामितोऽस्मि । सूर्यसङ्क्रमितामृतसन्तर्पितेन च मया क्षुत्तृषादिदुःखं न किञ्चिदनुभूतम् । कृतकृत्यश्च सूर्यमापृच्छ्य ज्ञानेन च जगदुपकर्तुं महीलोकं भ्रमन्नस्मि । अहं 'वराहमिहिरः' इति वाच्यः । इत्यादि खैरं प्रख्यापयामास । सम्भाव्यत्वात् " लोके पूजां परमामाप" । प्रतिष्ठानपुरे शत्रुजितं भूपालं कलाकलापेन रञ्जयामास । तेन निजपुरोहितः कृतः । यतः ३. गौरवाय गुणा एव न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ ३॥ (६) अथ श्वेताम्बरान्निन्दति - किममी वराकाः काका विदन्ति" ? | मक्षिकावद्भिणिहणायमानाः कारास्था इव कुचेलाः कालं क्षपयन्ति । क्षपयन्तु । तच्छृण्वतां श्रावकाणां शिरःशूलमुत्पेदे । धिगि- 10 दामस्माकं जीवितम् । येन गुर्ववज्ञां सहामहे । किं कुर्मः ? । अयं कलावानिति नरपतिना पूज्यते । राजभिः पूज्यते यश्च सर्वैरपि स पूज्यते । भवतु । तथापि भद्रबाहुमाह्वयामस्तावत् । इति संमय तथैव चक्रुः । आगताः श्रीभद्रबाहवः । कारितः श्रावकैः सस्पर्द्धि" प्रवेशमहः । स्थापिता गुरवः सुस्थाने । नित्यं व्याख्यारसानास्खादयामासुः सभ्याः । भद्रबाह्रागमे स" वराहो बाढं मम्लौ" । तथापि तेभ्यो नापकर्तुमशकदसौ । 15 (७) अत्रान्तरे वराहमिहिरगृहे पुत्रो जातः । तज्जन्मतुष्टः प्रभूतं धनं व्ययति" स्म । लोकाच पूजामाप्रोति स्म । 'पुत्रस्य वर्षशतमायुः' इति तेन नरेन्द्रादिलो काग्रे सभासमक्षं प्रख्यापितम् । गृहे उत्सवादयस्तस्य । एकदा सदसि वराहः प्राह स्म" - अहो ! सहोदरोऽपि भद्रबाहुर्मे पुत्रजन्मोत्सवे नागात्-इति बाह्या एते । एतदाकर्ण्य श्रावकै भद्रबाहुर्विज्ञप्तः एवं" एवं असौ वदन्नास्ते । गम्यतां भवद्भिरेकदा तद्गृहम् । मा वृधन्मुधा क्रोधः । श्रीभद्रबाहुनाऽऽदिष्टम् - " द्वौ क्लेशौ 20 कथं कारयध्वे ? । अयं बालः सप्तमे दिने निशीथे बिडालिकया घानिष्यते । तस्मिन्मृते शोकविसर्जनायापि " गन्तव्यमेव तावत् । ततः " श्रावकैरूचे - तेन विप्रेणोपराजमर्भस्य "समाशतमायुरुक्तम् । भवद्भिः "पुनरित्थंमादिश्यते । किमेतत् ? । श्रीभद्रबाहुखामिना भणितम् - ज्ञानस्य प्रत्ययः सारम् स चासन्न एवास्ते । स्थितास्तूष्णीं श्रावकाः । आगतं सप्तमं दिनम् । तत्रैव द्विप्रहरमात्र्यां" रात्र्यां बालं स्तन्यं पाययितुं धात्र्युपविष्टा । द्वारशाखार्थैन्यस्ताsर्गला 25 बालमस्तके पतिता जनान्तरसश्चारात् । प्रमीतो बालः । रुद्यते वराहगृहे । मिलितो लोकः । भद्रबाहुनाऽपि श्रावका उक्ताः - 'शोकापनोदो धर्माचार्यः' इति तत्रास्माभिरधुना गन्तव्यम् । श्रावकशतवृता" गतास्तत्राचार्याः । वराहः शोकशङ्कुङ्कुलोऽप्यभ्युत्थानाद्युचितमकरोत् । अभ्यवधाच्च - आचार्याः ! भवतां ज्ञानं मिलितम् । केवलं बिडालीतो मृत्युर्न, किन्त्वर्गलात: " । 0 मपि मे । 5 A प्रदर्शय । 6 A विहाय 'मिहरेण' । I 1 AB दृढतया । 2 P 'बाई' नास्ति । 3 P स्थापय । 4 A 7 P विनाsन्यत्र 'भ्रमितो ० ' । 8 AB क्षुत्तर्षादि ० । 9 B'च' नास्ति । 10 B सम्भाव्यत । 11 C परमाप; P परमामाप्य । 12 AC वदन्ति । 13 AB धिगस्माकं । 14 P सस्पर्द्ध ० । 15 P नास्ति 'स' । 16 A मम्ले । 17 AB व्यययति । 18 A प्राहस्य । 19 B एवमसौ । 20 CD विसर्जनायामपि । 21 P 'तत' नास्ति । 22 A समाः । 23 P पुनरिदं । 24 P मात्रायां रात्रौ । 25 AB • खाये। 26 P प्रमृतो । 27 PC ० शतावृता । 28 CP 'शंकु' नास्ति । 29 A वर्गलीतः । Jain Education International. For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176