Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 79
________________ प्रबन्धकोशे मिव मन्यसे?। भारत्याह-भोः परमर्मभाषक ! न मरसि, यत्रोक्तं त्वया एकादशे सर्गे चतुःषष्टितमे काव्ये १५६. देवी पवित्रितचतुर्भुजवामभागा वागालपत्पुनरिमां गरिमाभिरामाम् । एतस्य' निष्कृपकृपाणसनाथपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥ ४॥ 5 एवं मां विष्णुपत्नीत्वेन प्रकाश्य लोके रूढं कन्यात्वं लुप्तवानसि । ततो मया पुस्तकं क्षिप्तम् । १५७. याचको वञ्चको व्याधिः पञ्चत्वं मर्मभाषकः । योगिनामप्यमी पञ्च प्रायणोद्वेगहेतवः ॥५॥ इति वाग्देवीवाचं श्रुत्वा श्रीहर्षों वदति-किमर्थमेकस्मिन्नवतारे नारायणं पतिं चक्रुषी। त्वं पुराणेष्वपि विष्णुपत्नीति पठ्यसे । ततः सत्ये किमिति कुप्यसि ? । कुपितैः किं छुव्यते कल. कात्? । इति श्रुत्वा वयं गृहीत्वा पुस्तकं हस्ते धारितम् । ग्रन्थश्च श्लाघितः सभासमक्षम् । श्रीहर्षेण 10 पण्डिता उक्तास्तत्रत्या:-ग्रन्थमत्रत्याय राज्ञे माघवदेवनान्ने दर्शयत । श्रीजयन्तचन्द्राय च शुद्धोऽयं ग्रन्थ इति लेखं प्रदत्त । इति श्रुतेऽपि ग्रन्थे भारत्यभिमते ज्ञातेऽपि ते न लेखं ददते, न भूपं दर्शयन्ति । स्थितः श्रीहर्षों बहून मासान् । जग्धं पाथेयम् । विक्रीतं वृषभादि । मितीभूता परिच्छदः । एकदा नद्यासन्नदेशे कूपतटासन्नतमे देवकुले रुद्रजपं रहः करोति । तत्रागते कयोश्विद्गृहिणोरुल्लण्ठे चेव्यौ जलप्रथमपश्चाद्ग्रहणघटभरणविषये वादे लग्ने । तयोश्चिरमु15क्तिप्रत्युक्तिरभूत् । शीर्षाणि स्फुटितानि घातप्रतिघातैः । गते राजकुलम् । राजा साक्षिणं गवे. षयति । उक्ते ते-अत्र कलहे कोऽपि साक्षी विद्यते न वा? । ताभ्यां जगदे-विप्र एकस्तत्रास्ते जपतत्परः। गता राजकीयाः । आनीतः श्रीहर्षः पृष्टस्तयोर्नयानयो । श्रीहर्षेण गीर्वाणवाण्योक्तम्-देव! वैदेशिकोऽहम् । न वेद्मि किमप्येते प्राकृतवादिन्यो ब्रूतः। केवलं तान् शब्दान् वेनि। राज्ञोक्तम्-ब्रूहि । तत्क्रमस्थमेव तदुभाषित-प्रतिभाषितशतमभिहितमनेन । राजा चमत्कृता20 अहो प्रज्ञा !, अहो अवधारणा!। दास्योर्वाद निर्णीय यथासम्भवं निग्रहानुग्रही कृत्वा प्रहित्य श्रीहर्षमपृच्छद् राजा-कस्त्वमेवं मेधिरशिरोमणिः । श्रीहर्षेणोक्तं सर्व कथानकं स्वम् । राजन्! पण्डितकृतदौर्जन्यात्तव पुरे दुःखी तिष्ठामि । सम्यक्पारम्पर्यज्ञो राजा पण्डितानाहूयावादीत्धिङ्मूढाः! ईदृशेऽपि रत्ने न लियथ । १५८. वरं प्रज्वलिते वह्नावहाय निहितं वपुः । न पुनर्गुणसम्पन्ने कृतः खल्पोऽपि मत्सरः ॥ ६ ॥ 25 १५९. वरं सा निर्गुणाऽवस्था यस्यां कोऽपि न मत्सरी । गुणयोगे तु वैमुख्यं प्रायः सुमनसामपि ॥७॥ तस्मात्खला यूयम् । गच्छत एतं महात्मानं प्रत्येकं खखगृहेषु सत्कुरुत । तदा श्रीहर्षः प्रागदत् १६०. यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं केव कुरुते ।। मदुक्तिश्चेतश्चेन्मदयति सुधीभूय सुधियः किमस्या नाम स्यादरसपुरुषाराधनरसैः १ ॥८॥ 30 इति ललजिरे पण्डिताः सर्वे । गृहं नीत्वा सत्कृत्यानुनीय राज्ञा च सत्कार्य 1 प्रहितः श्रीहर्षः कासीम् । मिलितो जयन्तचन्द्राय । उक्तं सर्वम् । तुष्टः सः। प्रसृतं नैषधं लोके । 1P अस्यारिनिष्कृ०। 2P सत्यं। 3P खगृ। 4P प्रागदीत्। 5 BDP लजिरे। 6BDE सत्कार्या।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176