Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 143
________________ प्रबन्धको यख्यातिगर्भः। राजाह -स किमिति नात्रानीतः । वृद्धाह-आनीतोऽस्ति । दृश्यतां तर्हि ? | अश्ववारान्' प्रहित्य आनाय्य दर्शितो वस्तुपालः । दत्तोपदा [ मन्त्रिणा * ] । आलापितश्च राज्ञा[ मात्रा मदधिकस्त्वं पुत्रो मतः । तेन मम बान्धवस्त्वम् * ] अस्मन्माता त्वां स्तौति । [ एवं सुखवार्त्ता कृत्वा महतोत्सवेन स्वमातुरग्रेसरः कृत्वा श्रीवस्तुपालो ढिल्लीपुरं नीतः । आवासितश्च 5 साधुपून डस्यावासे । खमुखेन सुरत्राणेन निमत्र्य साधुपूनडसदने भोजयित्वा निजधवलगृहे आकारितः सचिवेन्द्रः । सविनयं सत्कृत्य परिधापितः । सुवर्णकोटिमेकां प्रसादपदे दत्त्वा उक्तश्चेति *-] किञ्चिद्याचख । [ येन वस्तुना प्रयोजनं तद्वद । ] वस्तुपालेनाभिहितम् - देव ! गुर्जरधरया सह देवस्य यावज्जीवं सन्धिः स्तात् । उपलपञ्चकं मम्माणीखनीतो दापय । राज्ञा मतं तत् । [ दत्ता धीरा * ] फलहीपञ्चकं तु [ नृपादेशात् * ] पूनडेन प्रेषितं शत्रुञ्जयाद्रौ । 10 तत्रैका ऋषभफलही । द्वितीया पुण्डरीकफलही । तृतीया कपर्द्दिनः । चतुर्थी चक्रेश्वर्याः । पञ्चमी तेजलपुर' [प्रासाद*] पार्श्वफलही । [ चलितः पश्चात् * ] मन्त्रीश्वरः खपुरं गतः । प्रणतः खखामी तेन चिरदर्शनोत्कण्ठाविह्वलेन' । पूर्वमपि कर्णाकर्णिकया श्रुतं ढिल्लीगमनवृत्तान्तम् । [ पुनः सविशेषं * ] मन्त्रिणं पप्रच्छ । सोऽपि निरवशेषमगर्वपरः प्राचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेन्नां प्रसादेन' । सा तु गृहादर्वागेव दत्ता [ बहुमिलितयाचकेभ्यः । मिलितो * ] 15 मन्त्रिगृहे सर्वो[ऽपि *] लोकः । [स*] सत्कृत्य प्रेषितः । कवयस्तु पठन्ति 20 25 १२० ३१०. श्रीमन्ति दृष्ट्वा द्विजराजमेकं, पद्मानि सङ्कोचमहो भजन्ति । समागतेऽपि द्विजराजलक्षे, सदा विकासी तव पाणिपद्मः ॥ ७३ ॥ ३११. उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्ये । एकोऽपि मन्त्रीश्वरवस्तुपाल ! सिद्धस्तव स्फूर्त्तिमियर्त्ति मन्त्रः ॥ ७४ ॥ एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानाककविना" भणितम् ३१२. एकत्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितम्, लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवम्, पातालाद्वलिमुद्दिधीर्षुरसकृन्मार्गं भवान् मार्गति ॥७५॥ तदैव कृष्णनगरीयकविकमलादित्येन भङ्ग्यन्तरमुक्तम् ३१३. लक्ष्मीं चलां त्यागफलां चकार यां", साऽर्थिश्रिता कीर्तिमसूत नन्दिनीम् । साऽपीच्छया क्रीडति विष्टपाग्रत, स्तद्वत्तयाऽसौ त्रपते यतो महान् ॥ ७६ ॥ [ तेषां कवीनां भूरि दानं दत्तमू* । ] १४५) अथ कदाचन मन्त्रिणा श्रुतं यथा - रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरटकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलकेभ्यः " कणमाणकमेकं १, कूपकात्कर्षः १ - एवं उपद्रूयते 30 लोकः । तत आयतिदर्शिना सचिवेन ते भरटकाः कुहाडीनामानं ग्रामं दत्त्वा तं करमुदूग्राहयतो निषिद्धाः । Jain Education International 1 V किमानीतो न । 2 Vदश्यतां । 3 VB वारं । * एते कोष्टकगताः सर्वेऽपि पाठाः SV आदर्शऽधिकं वाक्यमिदम् । 4P नास्ति 'तु' | । 6 P ० पुरे श्रीपार्श्व० । 7 A 9 P प्रसादपदे । 10 VB • वासिनानकविना । नास्ति । 5 A प्रैषि 11 P 'यां' P पुस्तक एव उपलभ्यन्ते । ० विलेन । 8P प्राचख्यौ । 12 AB नन्दनीम् । 13 P पोहलि० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176