Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 145
________________ १२२ प्रबन्धकोशे एतत्कथाश्रवणान्मन्त्री दध्यौ'-वयं चत्वारो भ्रातरोऽभूम । [तन्मध्ये* ] द्वौ स्तः। द्वौ तु मालदेव-लूणिगावल्पवयसौ दिवमगाताम् । 'मालदेवनाम्ना कीर्तनानि प्रागपि अकारिषत कियन्त्यपि । लूणिगश्रेयसे तु लूणिगवसतिरवुदे काराप्या । एतत्तेजःपालाय प्रकाशितम् । तेन विनी तेन सुतरां मेने। 5६१४८) अथ तेजःपालो धवलककादर्बुद गिरिभूषणां चन्द्रावतीं पुरीं गत्वा धारावर्षराणकगृह मगात् । तेनात्यर्थ पूजितः, किं कार्यम् ?, आदिश्यतामित्युक्तं च । मन्त्रिणोक्तम्-अर्बुदशिखराने प्रासादं कारयामहे । यदि यूयं साहाय्याः स्यात। धारावर्षेण भणितम्-तव सेवकोऽस्मि । अहं सर्वकार्येषु धुरि योज्यः। ततो राष्ट्रिक-गौग्गलिकादयो महादानैर्वशीकृतास्तथा, 'यथा निष्पत्स्यमानं चैत्यं करैर्न भारयन्ति । 'दानेन भूतानि वशीभवन्ति' [इति वचनात्*]। ततश्चन्द्रावतीमहाज10 नमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वाऽऽललाप-वयं चैत्यमबुदे कारयामहे, यदि पूजासान्निध्यं कुरुध्वे । 'चाम्पलेनापि स्वस्य कुटम्बान्तराणामपि देवपूजार्थ नित्यधनचिन्ता कृता । ततो मन्त्री आरासणं गत्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निष्काशयत् । तद् युग्यै रहकलैश्चार्तुदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धक्रोशान्तरे हद्दानि [मण्डापितानि तत्र*] सर्व लभ्यते । पशूनां नराणां क्षुधादि कृच्छ्रेमा भूदिति [कारणात्*]। 'उम्बरिणीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि 15 गिरेः प्रवेशयामास। पुनस्तां पद्यां विषमां चकार यथा परचक्रस्य प्रवेशो नो भवेत्। एवं सिद्धे पूर्वकर्मणि, शोभनदेवं सूत्रधारमाहूय कर्मस्थाये" न्ययुत । ऊदलाख्यं "शालमुपरिस्थायिनमकरोत्। अर्थव्यये खैरितां च समादिशत् । एवं सूत्रं कृत्वा तेजःपालो धवलक्ककमागमत् । निष्पद्यते प्रासादः । श्रीनेमिबिम्ब कषोपलमयं "घट्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरःपुरोऽथ गृह्णन्ति । कार्यकाले पुनः पुनर्याचन्ते । तत ऊदलो मत्रितेजापालाय 20 लिखति-देव ! द्रम्मा विनश्यन्ति । सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजःपालेन कथापितम्-द्रम्मा विनष्टा इति किं ब्रूषे। विनष्टाः किं कुथिताः ? । न तावत् कुथिता, किन्तु मनुष्याणामुपकृताः। उपकृताश्चेद्विनष्टाः कथं [कथ्यन्ते*] ? । माता मे वन्ध्येति वाक्यवत्परस्परं विरुद्धं ब्रूषे । तस्मात् तत्त्वमिदम्-सूत्रधाराणामिच्छाछेदो न कार्यः, देयमेवेति । ततो दत्ते ऊदलः।तावन्निष्पन्नं यावद् गर्भगृहम् , मध्ये श्रीनेमिनाथविम्बं स्थापितम्। एतच्च कृतं श्रीतेज:25 पालाय विज्ञप्तम् । तुष्टौ द्वौ मत्रिणौ । श्रीवस्तुपालादेशात् तेजःपालोऽनुपमया सहानल्पपरिच्छेदोर्बुदगिरि प्राप्तः। प्रासादं निष्पन्नप्रायं ददर्श । तुतोष । लात्वा सद्वस्त्रप्रावरणः सपत्नीको मन्त्री नेमि पूजयति स्म । अथ "ध्यानेनोर्ध्वस्तस्थौ चिरम् । क्षणार्द्धनानुपमा पतिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतुःस्तम्भीमूर्ध्वयितुमुपक्रमते । तदा*] मन्त्रिण्योक्तम्"-सूत्रधार! मम पश्यन्त्याश्चिरं बभूव। अद्यापि स्तम्भा नोत्त30 म्भ्यन्ते!। शोभनदेवेनोक्तम्-खामिनि ! गिरिपरिसरोऽयम् । शीतं स्फीतम् । प्रातर्घटनं विषमम् । मध्याह्रोद्देशे" तु गृहाय गम्यते, स्नायते, पच्यते, भुज्यते । एवं विलम्बः स्यात् । अर्थ" विल- 1A दधौ। 2 A मालवदेवः। 3 AV अर्बुदाग्रे। 4 A नास्ति । 1P यथा निष्पद्यमानचैत्योपरि प्रद्वेषं न भजन्ते । 5V चम्पकः। 61 चम्पकेनापि। 7 AB निरकाशयत् P निरवकाशयति । 8 A क्षुद्रादि। 9V उम्बरणी। 10 P परचक्रप्र०। 11 A स्थाने। 12 P आत्मशालकं। 13 BD पद्यते; P सजीकृतं विद्यते। 14 P अथ कायोत्सर्ग ध्यानेन । 15 V उपचक्रमे। 16 A मंत्रीण्युक्तं। 17 P मध्याहे। 18 P विना नास्त्यन्यत्रेदं पदम्। 19 V अथवा । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176