Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 148
________________ वस्तुपालप्रबन्धः । १२५ पालेन तं दुराशयं ज्ञात्वा प्रत्युत्पन्नमतित्वादश्व- गजहेमादिषु परमातमानुषैः परमो यत्नः कृतः । वीरमः प्रभवितुं न शशाक । धवलक्कक एव खसौधे विपुलेऽवतस्थे । दिनैस्त्रिभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः । बहुभिश्चितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षयन्नपरापरैर्मन्त्रिभिर्निषिद्धः । उक्तं च-देव ! त्वयि सति राणपादाः स्वयं जीवन्तीव [लक्ष्यन्ते *] त्वयि तु लोकान्तरिते परिपूर्णाः पिशुनानां मनोरथाः । गता गुर्जरधरा [ इति 5 ज्ञेयम् * ] । ततो न मृतो मन्त्री । उत्थापनदिने मन्त्री श्रीवस्तुपालः सभासमक्षं पठति ३२७. आयान्ति यान्ति च परे ऋतवः क्रमेण, सञ्जातमेतदृतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना जनानां, वर्षा विलोचनयुगे हृदये निदाघः ॥ ९१ ॥ अतीव निःश्वस्य गताः सर्वेऽपि स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्यलिप्सुवरमः सन्नह्य गृहान्निर्गमिष्यति यावता, तावता श्रीवस्तुपालेन वीसलः कुमारो राज्ये विनिवेशितः । वीसल - 10 देव इति नाम प्रख्यापितम् । सर्वराज्याङ्गेष्वासनरै रक्षा कारिता । स्वयं वीसलं गृहीत्वा साराश्वखुरपुटक्षुण्णक्षमापीठोच्छलदूरजःपुञ्ज स्थगितव्योमा राजन्यकरक्रूरकरवाल शल्य भल्ल किरणद्विगुणद्योतितरविकिरणो वीरमसम्मुखं ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्ट्वा श्वशुरेण राजकुलेन उदयसिंहेनाधिष्ठितं जावालिपुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान्नरानुदयसिंहान्तिके' प्रैषीत् । आख्यापयत्, यथा-15 अमुं राजद्विष्टकारकं जामातृज्ञातेयेन' यदि खान्तिके स्थापयिष्यसि, तदा ते न राज्यं न जीवितं च । हन्याश्चैनम् । ततो यदा वीरमो जावालिपुरोद्यानं 'प्राप्तस्तदा विश्राम्यन्नङ्गरक्षिकामुत्तारयन्नलसायमान उदयसिंहनियुक्तैर्धनुर्द्धरैः शरैः " शतजर्जरश्वालनीप्रायकायः कृतः मृतस्तत्र । तस्य शिरो वीसलदेवाय प्रहितं उदयसिंहेन । ततो " जातं निष्कण्टकं वीसलदेवराज्यम् । यावमात्रं वीरधवलेन साधितं तावन्मात्रान्न किमपि न्यूनमासीत् । केवलं लब्धप्रसरेण वीसलेन 20 श्रीवस्तुपालो लघुतया दृष्टः । ३२८. पुरुषः " सम्पदामग्रमारोहति यथा यथा । गुरूनपि लघुत्वेन संपश्यति तथा तथा ॥ ९२ ॥ $ १५१) राज्ञा पूर्वप्रीत्या " [वृद्धनगरीय] नागडनामा विप्रः प्रधानीकृतः । मन्त्रिणः " पुनर्लघुश्रीकरणमात्रं दत्तम् । [ अस्मिन् प्रस्तावे *] एकः " समराकनामा" प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः पूर्वमन्यायं कुर्वाणो मन्त्रि श्रीवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते देव 125 अनयोः पार्श्वेऽनन्तं धनमास्ते तद्याच्यताम् । राजापि तावाहूयावादीत्-अर्थो दीयताम् । ताभ्यामुक्तम्-"अर्थः शत्रुञ्जयादिषु तीर्थेषु" व्ययितत्वान्नास्ति नः" । राज्ञोक्तम् तर्हि दिव्यं दीयताम् । मन्निभ्यामभिहितम् - यद्दिव्यं भवद्भ्यो रोचते तदादिश्यताम् । राज्ञा " घटसर्पः पुरस्कृतः । लवणप्रसादो [ तदा जीवन्नभूत्, स *] निषेधयति तदकृत्यम् । नतु तद्वचनं राजा शृणोति, अभिनवदर्पवशात् । तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति 1 A शोकादधौ । 2 V नास्ति 'स्वयं' । 3 V निवे० । 4 AB ॰सम्मुखो । 5 P जालडुरपुरं । 6 A उदयसिंहाधिष्ठितं जावालिपुरं । 7 PCD जामातृसम्बन्धेन । 8A गतः । 9A अङ्गरक्षकान् । 10 P शतमितैः । 11 तदनु । 12 V सम्पदामुप्रा० । 13 V आदर्श एवैतत्पदं दृश्यते । 14 AP मन्त्रिणोः । 15 AP एकश्च । 16 CD समरानामा । 17 P कृतघ्नेन राज्ञापि । 18 BCD दृढ अर्थः । 19 V आदर्श एवेदं पदं लभ्यते । 20 P नः पार्श्वे । 21 A घटे सर्पः । Jain Education International For Private & Personal Use Only 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176