Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith
________________
वस्तुपालप्रबन्धः।
१२९
कवयः प्राहु:३४३. मन्ये मन्दधियां विधे ! त्वमवधिर्वैरायसे' चार्थिनां, यद्वैरोचन-सातवाहन-बलि-श्वेताज-भोजादयः । कल्पान्तं चिरजीविनो न विहितास्ते विश्वजीवातवो, मार्कण्ड-ध्रुव-लोमशाश्च मुनयः क्लुप्ताः प्रभूतायुषः ॥१०७॥
लोकास्तु वदन्ति३४४. किं कुर्मः ‘कमुपालभेमहि किमु ध्यायाम कं वा स्तुमः, कस्याग्रे खमुखं खदुःखमलिनं सन्दर्शयामोऽधुना। 5
शुष्कः कल्पतर्यदङ्गणगतश्चिन्तामणिश्चाजरत् , क्षीणा कामगवी च कामकलशो भग्नो हहा ! दैवतः ॥१०॥ ततस्तेजःपाल-जयन्तसिंहाभ्यां मनिदेहस्य शत्रुञ्जयैकदेशे संस्कारः कृतः। संस्कारभूम्यासन्नः स्वर्गारोहणनामा प्रासादो नमि-विनमियुत-ऋषभसनाथः कारितः।मन्त्रिण्यौं ललितादेवीसौख्वौ अनशनेन मम्रतुः।
६१५५) श्रीतेजःपालस्त्वनुपमासहितो मध्यमव्यापारभोगभाग 'लेशतस्तथैव दानं तन्वन् 10 १३०८ वर्षे द्यामगमत् । शनैः श्रीजयन्तसिंहोऽपि परलोकमभजत् । श्रीअनुपमापि तपसा खर्गमसाधयदिति भद्रम् ।
६१५६) एतयोश्च श्रीवस्तुपाल-तेजःपालयोधर्मस्थानसङ्ख्या कर्तुं क ईश्वरः, परं गुरुमुखश्रुतं किञ्चिल्लिख्यते-लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादश कोव्यः षण्णवतिर्लक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्ययितम्" । द्वादश कोव्योऽशीतिर्लक्षाः श्रीउज्जयन्ते। द्वादशकोट्यस्त्रि-15 पंचाशल्लक्षा अर्बुदगिरिशिखरे लूणिगवसत्याम् । नवशतानि चतुरशीतिश्च पौषधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानां [कारापणं सूरीणां प्रत्येकमुपवेशनार्थमर्पणम्*]; पञ्चशतानि पश्चोत्तराणि समवसरणानां जादरमयानां [कारणं श्रीकल्पवाचनाक्षणे मण्डनार्थम् *]; ब्रह्मशालाः सप्तशतानि । [ब्रह्मपुर्यः*] सप्तशतानि सत्रागाराणाम् । सप्तशती तपखिकापालिक-भगवद्योगिनां मठानाम् । [तेषां*] सर्वेषां भोजननिर्वापादिदानं निश्चितं कृतम् । 20 'त्रिंशच्छतानि झुत्तराणि महेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिशतानि जीर्णचैत्योद्धाराणाम् । अष्टादशकोटिव्ययेन सरस्वतीभाण्डा. गाराणां त्रयाणां स्थानत्रये करणम् [धवलक्क-स्तम्भतीर्थ-पत्तनादौ *]। पञ्चशती "ब्राह्मणानां नित्यं वेदपाठं करोति स्म [तेषां गृहमानुषाणां निर्वाहकरणम्*]। वर्षमध्ये सङ्घपूजात्रितयं [सर्वदर्शनिनाम् ] पञ्चशती श्रमणानां नित्यं गृहे विहरति स्म। तटिक-कार्पटिकानां सहस्रं समधिकं 25 प्रत्यहमभुक्त । त्रयोदशयात्राः सङ्घपतीभूय कारिताः [लोकानाम्* ]। तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानाम् । सप्तशती सुखासनानाम् । अष्टादशशती वाहिनीनाम् । एकोनविंशतिशतानि श्रीकरीणाम् । एकविंशतिशतानि श्वेताम्बराणाम् । एकादशशती दिगम्बराणाम् । चत्वारि शतानि सार्दानि जैनगायनानाम् । त्रयस्त्रिंशच्छती बन्दिजनानाम् । [चतुःसहस्रतुरगाः। द्विसहस्रोष्ट्राः । चतुश्चत्वारिंशदधिकशतं देवार्याः 130 सप्तलक्षमनुष्याः। इदं प्रथमयात्राप्रमाणम् । अग्रेतना तदधिका ज्ञेया*] (द्वितीययात्रायां सम
1P वैराय सेवार्थिनां। 2 CD श्वेतोऽब्जभोजा०; B श्वातोब्जभो०; P श्वेताजभो। 3 P तृप्ताः। 4 A किमुपा० । 5P मत्रिणः पन्यौ। 6A सौखौ; P सोषू। 7 P लेशवतोऽपि। 8 P तन्वानः। 9 P ततः। 10 A व्ययोचितं । + P पञ्चविंशतिशतानि हरिहरप्रमादिमहेश्वरा०। 11 V गारवयं स्थानत्रये। 12 V विप्राणां। 13 ACD कुर्वति स; P कारयति स्म। 14 AP पञ्चदशशती। 15 P बटुकटिककार्पटिकानां ।
१७ प्र० को
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176