Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith

Previous | Next

Page 150
________________ वस्तुपालप्रबन्धः। १२७ पृष्टः-गुरो! किमत्र युक्तं स्यात् । गुरुणोक्तम्-मां तत्पार्श्वे प्रहिणुत । आयति पथ्यं करिष्ये । प्रहितः सः। प्राप्तो मन्त्रिसौधद्वारम् । प्राप्तो मन्यनुज्ञया मन्त्रिपार्श्व पुरोहित आह-मनिन् ! किमेतत् ? । अल्पे कार्य कियत्कृतं भवद्भिः!। जेठुअका मिलिताः सन्ति । राजापि तद्भागिनेयः क्रुद्धः । शम्यन्ताम्', येन सन्धि कारयामि । अथ मन्त्रीशः प्राह-मरणात् किं भयम् । ____३३०. *जिते च लभ्यते लक्ष्मीमते चापि सुराङ्गना । क्षणविध्वंसिनी काया, का चिन्ता मरणे रणे ॥ ९४ ॥ 5 गुरुपरिभवो दुस्सहः। [अथ किं*] व्यापृतम् , जग्धम्, पीतम् , दत्तम् , गृहीतम्, विलसितम् । यदा तदा यथा तथा मर्त्तव्यमेव । इदमेकं मरणमित्थं भवतु । ३३१. जीवितैकफलमुद्यमार्जितम् , लुण्ठितं पुरत एव यद् यशः । ते शरीरकपलालपालनं, कुर्वते बत कथं मनस्विनः ॥ ९५॥ इत्यादिगीर्भिर्मृतिकृतनिश्चयं मत्रिणं ज्ञात्वा गुरुर्गत्वा राजानमूचे-राजेन्द्र ! नियत एवात्र 10 प्रघट्टके' मन्त्री। 'अग्रेऽपि युद्धशूरस्तेषु स्थानेषु [जयश्रीवरो जातः। तत्र वक्तुं न पार्यते। अपि च*] 'तृणं शूरस्य जीवितम्' [इति वचनात्*] ईदृशो योधः कचिद्विषमे कार्येऽग्रे धृत्वा घात्यते नैवं वृथा । बहुधा भवतामुपकारी। [अन्यच्च*] स किंप्रभुर्यो जीर्णभृत्यानां द्वित्रान्मन्तून्न सहते। अस्मदादीनामपि' मनसि देवस्य कीदृशी आशा भाविनी । इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । [यदुक्तम्-*] ___३३२. विल्ली नरिन्दचित्तं वक्खाणं पाणियं च महिलाओ । तत्थ य वचन्ति सया जत्थ य धुत्तेहिं निजन्ति ॥९६॥ [राजा*] प्रोवाच-मन्त्रीह धीरां दत्त्वा सम्मान्य समानीयताम्।गतो गुरुस्तत्र ।राज्ञोक्तमुक्त्वा नीतो मन्त्री । परं सन्नद्धबद्धः [एव मिलितः*]। राज्ञा विविधतदुपकृतिस्मृत्या आर्द्रनयनमनसा पितृवदुपशमितो मन्त्री। [ मिनिन् ! भवत्समो मम राज्ये न परो राज्यवर्द्धकः । पूर्व भवान् अधिकारी अभूत्, सांप्रतं तु राज्याधिष्ठाता मुख्यः । मत्प्रकृती राज्यं भवदीयमेव । नागडस्तु 20 तवादेशकर्ता मन्तव्यः। मातुला मत्रिपादयोर्लगिताः । [ ग्रिामशतं मन्त्रिणो ग्रासे शाश्वतं कृतम् । ] स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः। 'बहुराजलोकसमक्षं शब्दः प्रलापितः-यो मन्त्रिगुरु-देवहन्ता तस्य प्राणान् हनिष्यामः [ मिम राज्ये न्यायान्यायनिरीक्षणा मन्यधीना] इत्युक्त्वा जिनमतस्य मन्त्रिणश्च गौरवमवृधद" वीसलदेवः । [इत्यादि यावता श्रीवीसलदेवेन समं श्रीवस्तुपालस्य परमप्रीतिरभूत् ।] ३३३. यत्कृतं वस्तुपालेन नान्यथा तत्कथं च न । सौभाग्यभाग्यतः शश्वद्वर्द्धतेऽनुदिनं यशः ॥ ९७ ॥ ६१५३) "अथ विक्रमादित्यात् १२९८ वर्ष प्राप्तम्। श्रीवस्तुपालो ज्वररुक"लेशेन पीडितः। [तदा] तेजःपालं सपुत्रपौत्रं वपुत्रं च जयन्तसिंहमभाषत-वत्सा! श्रीनरचन्द्रसूरिभिर्मल्लधारिभिः संवत् १२८७ वर्षे भाद्रपदवदि १० दिने “दिवंगमसमये "वयमुक्ताः -मत्रिन् ! भवतां १२९८ 15 25 1AB तद्भाग्नेयः। 2 P तागिनेयः । तेन क्रोधः शम्यताम् । 3 V कारापयामि। *P पुस्तक एवैष श्लोको लभ्यते । AP झगटके। 5 Pस अग्रे। 6 P द्विवानपराधान। 7 A 'अपि' नास्ति । $P पुस्तक एवेयं गाथा लभ्यते। [1] एतदङ्किताः पाठा: V आदर्श एव लभ्यन्ते। 8 P लगापिताः। 9 P विना सर्वत्र 'बहू राजलोकः' इत्येव । 10 P अवीवृधत् । tv आदर्श एवैष श्लोको लभ्यते । 11 P एवं काले गच्छति विक्र० । 12 P .रुकक्लेशेन । 13 P नास्ति 'स्वपुत्र'। 14P तेषां देवगमन । 15P वयमेवमुक्ताः। Jain Education Intemational ation Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176