Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith
________________
१२८
प्रबन्धको
वर्षे स्वर्गारोहो भविष्यति । तेषां च वचांसि न चलन्ति, गीः सिद्धिसम्पन्नत्वात् । ततो वयं श्रीशत्रुञ्जयं गमिष्याम एव ।
३३४. गुरुर्भिषग् 'युगादीशप्रणिधानं रसायनम् । सर्वभूतदयापथ्यं सन्तु मे भवरुग्भिदे ॥ ९८ ॥ ३३५. लब्धाः श्रियः सुखं स्पृष्टं मुखं दृष्टं तनूरुहाम् । पूजितं दर्शनं जैनं न मृत्योर्भयमस्ति मे ॥ ९९ ॥ 5 कुटुम्बेन 'तन्मतम् । शत्रुञ्जयगमनसामग्री निष्पन्ना | वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः । [ मुत्कलापितश्च कतिपयपदानि सम्प्रेषणायायातः । *] ततो नागडगृह मन्त्री स्वयमगात् । तेनाऽऽसनादिभिः सत्कृतो [पृष्टः कार्यविशेषं मन्त्री *] बभाषे वयं भवान्तरशुद्धये विमलगिरिं प्रतिष्ठामहे । भवद्भिजैनमुनयोऽमी ऋजवः सम्यगरक्षणीयाः क्लिष्टलोकात् । [ यतः * ]
10
३३६. 'गौर्जरात्रमिदं राज्यं वनराजात् प्रभृत्यपि । स्थापितं जैनमत्रौघैस्तद् द्वेषी नैव नन्दति ॥ १०० ॥ इति ज्ञातव्यम् । मन्त्रिनागडेनोक्तम् - श्वेताम्बरान् भक्त्या गौरवयिष्यामि । चिन्ता [ एषा *] न कार्या । स्वस्त्यस्तु वः । इति तद्वचसा समतुषत् ।
९ १५४) अथ चचाल वस्तुपालः । 'अङ्केवालिआग्रामं यावत्प्राप, तत्र शरीरं बाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाधिना सर्व शृणोति, श्रद्दधाति च । अनशनं प्रतिपद्य यामे गते स्वयं भणति15 ३३७. न कृतं सुकृतं किञ्चित् सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥ ३३८. यन्मयोपार्जितं पुण्यं जिनशासनसेवया । जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥
१०१ ॥
१०२ ॥
३३९. या रागिण विरागिण्यः स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्तिं या विरागिणि रागिणी ॥ १०३ ॥ ३४०. शास्त्राभ्यासो जिनपदनुतिः' सङ्गतिः सर्वदाऽऽयैः, सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ १०४ ॥ 20 इति भणन्ने वास्तमितो 'जैनशासन गगनमण्डलमृगाङ्कः श्रीवस्तुपालः । तदा निर्ग्रन्थैरपि तारपूत्कारमरोदि; का कथा सोदरादीनाम् । [ * मन्त्रिणि दिवंगते श्रीवर्द्धमानसूरयो वैराग्यादाम्बिलवर्द्धमानतपः कर्त्तुं मारेभुः । मृत्वा शंखेश्वराधिष्ठायकतया जाताः । तैर्मन्त्रिणो गतिर्विलोकिता, परं न ज्ञाता । ततो महाविदेहे गत्वा श्रीसीमन्धरो नत्वा पृष्टः । खाम्याह- अत्रैव विदेहे पुष्कलावत्यां पुण्डरीकियां पुरि कुरुचन्द्रराजा संजातः । स तृतीये भवे सेत्स्यति । अनुपदेजीवस्तु 25 अत्रैव श्रेष्ठिसुताऽष्टवार्षिकी मया दीक्षिता पूर्वकोट्यायुः । प्रान्ते केवलं मोक्षश्च । सा एषा साध्वी व्यन्तरस्य दर्शिता । तदनु तेन व्यन्तरेणात्रागत्य तयोर्गतिः प्रकटिता । ] तत्र तेजःपालो विलपति
३४१. आल्हाद कुमुदाकरस्य जलधेर्वृद्धिः सुधास्यन्दिभिः, प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनादरादहृदयोऽनादृत्य राहुर्हहा !, कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥ १०५ ॥ जयन्तसिंहो वदति
30
३४२. खद्योतमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयन्ति ताराः ।
Jain Education International
एकेन तेन रजनीपतिना विनाऽद्य सर्वा दिशो मलिनमाननमुद्वहन्ति ॥ १०६ ॥
1 A युगादीनां । 2 P तम्मानितं । 3P नागडप्रधानगृहं । 4 P गौर्जराणां । 5P मन्त्रैस्तु । 6A आकवालिया० । 7 PA जिनपति० । 8 AB जिन० । * कोष्टकगतः एष सर्वोऽपि पाठः P पुस्तके लभ्यते, नान्यत्र ABCD आदर्शपु; अतः प्रक्षिप्तप्रायो ऽयम् । 9 A अहृदयेनादृत्य ।
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176