Book Title: Prabandh kosha
Author(s): Rajshekharsuri, Jinvijay
Publisher: Singhi Jain Gyanpith
________________
१२६
प्रबन्धकोशे
३२९. मासान्मांसलपाटलापरिमलव्यालोलरोलम्बतः, प्राप्य प्रौढिमिमां समीर ! महतीं हन्त त्वया किं कृतम् ? । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत्, पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥९३॥
निवर्तितं दिव्यं राज्ञा। ६१५२) अथ कदाचिद् धवलक्कके मन्त्रिणि वसति सति, पौषधशाला एका आस्ते, तस्या 5 उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत् । [तस्याज्ञानात् *] सः पुञ्जको वीसलदेवमातुलस्य सिंहनानो याप्ययानारूढस्याधो रथ्यायां गच्छतः शिरसि पतितः। क्रुद्धः सः । मध्ये आगत्य क्षुल्लक दीर्घेण तर्जनकेन पृष्ठे दृढमाहत्य-रे ! मां जेटुआकं सिंह राजमातुलं न जानासीति वदन खगृहं गतः। तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजनारम्भे उत्क्षिप्तप्रथमकवलं [आगत्य *] रुदन्नुघाटितपृष्ठोऽजिज्ञपत् क्षुल्लकः । मन्त्रिणाऽभुक्तेनैव उत्थाय क्षुल्लकः सन्धार्य प्रस्थापितः । 10[शालायां प्रेषितश्च । तदनु *] स्वयं स्वकीयः परिग्रहो भाषितः-भोः क्षत्रियाः! स कोऽप्यस्ति युष्मासु [मध्ये *] यो मम मनोदाहमुपशमयति । [तन्मध्ये*] एकेन राजपुत्रेण भूणपालाख्येनोक्तम्-देव! 'आदेशं देहि । [अहं तु*] प्राणदानेऽपि तव प्रसादानां नानृणीभवामः । [स एकान्ते नीत्वा*] छन्नं मन्त्रिणादिष्टम्-याहि*] जेटुआवंशस्य राजमातुलस्य सिंहस्य दक्षिणं पाणि छित्त्वा मे ढोकय ।स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याह्रोद्देशे" सिंहावासद्वारे तस्थौ। तावता राजकलात सिंह आगात् । राजपुत्रेणाग्रे भूत्वा प्रणिपत्य सिंहाय उक्तम-मत्रिणा श्रीवस्तुपालदेवेनाहं वः समीपं केनापि गूढेन" कार्येण प्रेषितोऽस्मि। तेन*] इतो भूत्वा प्रसद्याऽवधार्यताम्। इत्युक्ते स किश्चित्पराग् "भूत्वा यावद् वाती श्रोतुं यतते, तावन् मन्त्रिभृत्येन सिंहस्य करः खकरे कृतः", सहसा छुर्या "छिन्नश्च। तं छिन्नं करं गृहीत्वा-रे! वस्तुपालस्य भृत्योऽस्मि । पुनः श्वेताम्बरं
परिभवेरिति वदंश्चरणबलेन पलाय्य भूणपालो मत्र्यन्तिकमगमत्, करमदीदृशत् । मत्रिणा 20 शश्लाघे ऽसौ। स करः खसौधाऽने बद्धः। खमानुषाणि परमाप्सनरगृहे मुक्तानि । [आत्मीय*] परिग्रहो भाषितः-यस्य जीविताशा स खगृहं यातु, जीवतु [चिरम् *] । अस्माभिर्बलवता सह वैरमुपार्जितम् । मरणं करस्थमेव, जीविते सन्देहः । तैः सर्वैरप्युक्तम्-देवेन सह मरणं जीवितं च। "स्थिताः [स्मो वयम्, एतदर्थे निश्चयो ज्ञातव्यः] । ततो गोपुराणि दत्त्वा गृहं नरैः खावृतं कृत्वा स्वयं खसौधोपरि [ सज्जीभूय* ] तस्थौ । निषङ्गी, कवची, धनुष्मान् । ततः सिंहस्यापि 25 परिच्छदो मिलितो बान्धवादिर्भूयान् । [तैः सर्वैरभाणि-*] गत्वा वस्तुपालं सपुत्रपशुबान्धवं
हनिष्याम इति प्रतिजज्ञे। चलितं जेटुआकसैन्यम् । यावद्राजमन्दिराग्रे आयातं कलकलायमानं तत्", तावदेकेन ज्यायसोक्तम्-एवंविधं व्यतिकरं यदि*] राजा विज्ञप्यते [तदा वरं*] मा स्म
तत्कोपोऽभूत् । ततो विज्ञप्तं राज्ञे। राज्ञा वात्ती ज्ञात्वा विमृश्य भणितम्-अनपराधे वस्तुपालो"न पीडयति कञ्चित् । युष्माभिरन्याय्यं कृतम् ; मन्त्रिणो गुरुरपीडि । [राजा प्राह30 यदीत्थं कृतं*] तस्मात्तिष्ठतात्रैव । वयं स्वयं करिष्यामो यदुचितम् । ततः सोमेश्वरदेवः
1 A तस्या उपरि उपरितनं । 2 P यानाधिरूढस्य । 3 P दीर्घया। 4 BCD सिंहराजकुलं; P सिंहनामानं । 5 B उद्घाटितः । 6 BC अभ्यजिज्ञपत् । 7 A मे । 8 P ममादेशं । 9V मत्रिणा प्रच्छन्नमादिष्टम्; P मत्रिणा छन्नं कर्णे प्रविश्य समादिष्टं। 10 B ढोकय मम। 11 P मध्याहे। 12 PC गूढकार्येण। 13 A पराङ् भूस्खा; P किञ्चिद् गत्वा पराङ्मुखो भूत्वा। 14 P कृत्य । 15 P कंकलोहछुर्या छिन्नः। 16 P श्लाघेऽसौ। 17 A स्थितं। 18 V ततः । 19 B राज्ञो। 20 P माऽस्मत्सहसाकारित्वे तस्य कोपोऽभूत्। 21 P केषामपि वस्तुपालो। 22 V कांश्चित् ; P किञ्चित् । 23 P कृतं भावि । तैरुक्तम्-मन्त्रिणो गुरुः पीडितः । 24 A तिष्ठतां तत्रैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176