________________
वस्तुपालप्रबन्धः ।
१२५
पालेन तं दुराशयं ज्ञात्वा प्रत्युत्पन्नमतित्वादश्व- गजहेमादिषु परमातमानुषैः परमो यत्नः कृतः । वीरमः प्रभवितुं न शशाक । धवलक्कक एव खसौधे विपुलेऽवतस्थे । दिनैस्त्रिभिर्वीरधवलो दिवं गतः । लोकः शोकसमुद्रे पतितः । बहुभिश्चितारोहणं कृतम् । मन्त्री तु सपरिजनः काष्ठानि भक्षयन्नपरापरैर्मन्त्रिभिर्निषिद्धः । उक्तं च-देव ! त्वयि सति राणपादाः स्वयं जीवन्तीव [लक्ष्यन्ते *] त्वयि तु लोकान्तरिते परिपूर्णाः पिशुनानां मनोरथाः । गता गुर्जरधरा [ इति 5 ज्ञेयम् * ] । ततो न मृतो मन्त्री । उत्थापनदिने मन्त्री श्रीवस्तुपालः सभासमक्षं पठति
३२७. आयान्ति यान्ति च परे ऋतवः क्रमेण, सञ्जातमेतदृतुयुग्ममगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां, वर्षा विलोचनयुगे हृदये निदाघः ॥ ९१ ॥
अतीव निःश्वस्य गताः सर्वेऽपि स्वस्थानम् । ततश्च मृते वीरधवले तद्राज्यलिप्सुवरमः सन्नह्य गृहान्निर्गमिष्यति यावता, तावता श्रीवस्तुपालेन वीसलः कुमारो राज्ये विनिवेशितः । वीसल - 10 देव इति नाम प्रख्यापितम् । सर्वराज्याङ्गेष्वासनरै रक्षा कारिता । स्वयं वीसलं गृहीत्वा साराश्वखुरपुटक्षुण्णक्षमापीठोच्छलदूरजःपुञ्ज स्थगितव्योमा राजन्यकरक्रूरकरवाल शल्य भल्ल किरणद्विगुणद्योतितरविकिरणो वीरमसम्मुखं ययौ । दारुणः समरो जज्ञे । वीरमः स्वस्य तेजसोऽनवकाशं मन्यमानो नष्ट्वा श्वशुरेण राजकुलेन उदयसिंहेनाधिष्ठितं जावालिपुरं प्रत्यचालीत् । मन्त्री तस्याशयं दक्षतया ज्ञात्वा षोडशयोजनिकान्नरानुदयसिंहान्तिके' प्रैषीत् । आख्यापयत्, यथा-15 अमुं राजद्विष्टकारकं जामातृज्ञातेयेन' यदि खान्तिके स्थापयिष्यसि, तदा ते न राज्यं न जीवितं च । हन्याश्चैनम् । ततो यदा वीरमो जावालिपुरोद्यानं 'प्राप्तस्तदा विश्राम्यन्नङ्गरक्षिकामुत्तारयन्नलसायमान उदयसिंहनियुक्तैर्धनुर्द्धरैः शरैः " शतजर्जरश्वालनीप्रायकायः कृतः मृतस्तत्र । तस्य शिरो वीसलदेवाय प्रहितं उदयसिंहेन । ततो " जातं निष्कण्टकं वीसलदेवराज्यम् । यावमात्रं वीरधवलेन साधितं तावन्मात्रान्न किमपि न्यूनमासीत् । केवलं लब्धप्रसरेण वीसलेन 20 श्रीवस्तुपालो लघुतया दृष्टः ।
३२८. पुरुषः " सम्पदामग्रमारोहति यथा यथा । गुरूनपि लघुत्वेन संपश्यति तथा तथा ॥ ९२ ॥
$ १५१) राज्ञा पूर्वप्रीत्या " [वृद्धनगरीय] नागडनामा विप्रः प्रधानीकृतः । मन्त्रिणः " पुनर्लघुश्रीकरणमात्रं दत्तम् । [ अस्मिन् प्रस्तावे *] एकः " समराकनामा" प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नीचः पूर्वमन्यायं कुर्वाणो मन्त्रि श्रीवस्तुपालेन पीडितोऽभूत् । स लब्धावकाश उपराजं ब्रूते देव 125 अनयोः पार्श्वेऽनन्तं धनमास्ते तद्याच्यताम् । राजापि तावाहूयावादीत्-अर्थो दीयताम् । ताभ्यामुक्तम्-"अर्थः शत्रुञ्जयादिषु तीर्थेषु" व्ययितत्वान्नास्ति नः" । राज्ञोक्तम् तर्हि दिव्यं दीयताम् । मन्निभ्यामभिहितम् - यद्दिव्यं भवद्भ्यो रोचते तदादिश्यताम् । राज्ञा " घटसर्पः पुरस्कृतः । लवणप्रसादो [ तदा जीवन्नभूत्, स *] निषेधयति तदकृत्यम् । नतु तद्वचनं राजा शृणोति, अभिनवदर्पवशात् । तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रति
1 A शोकादधौ । 2 V नास्ति 'स्वयं' । 3 V निवे० । 4 AB ॰सम्मुखो । 5 P जालडुरपुरं । 6 A उदयसिंहाधिष्ठितं जावालिपुरं । 7 PCD जामातृसम्बन्धेन । 8A गतः । 9A अङ्गरक्षकान् । 10 P शतमितैः । 11 तदनु । 12 V सम्पदामुप्रा० । 13 V आदर्श एवैतत्पदं दृश्यते । 14 AP मन्त्रिणोः । 15 AP एकश्च । 16 CD समरानामा । 17 P कृतघ्नेन राज्ञापि । 18 BCD दृढ अर्थः । 19 V आदर्श एवेदं पदं लभ्यते । 20 P नः पार्श्वे । 21 A घटे सर्पः ।
Jain Education International
For Private & Personal Use Only
30
www.jainelibrary.org