________________
१२४
अत एव नः सदा भवद्दर्शनरणरणकाक्रान्तमेव खान्तमासीत् । इदानीं चारुसम्पन्नं भवदीयसाङ्गत्यम् । तदपि विशेषतः श्रीमन्नेमिदृष्टौ । ततो यशोवीरो व्याहरति
5
प्रबन्धकोशे
३२५. श्रीमत्कर्णपरम्परागतभवत्कल्याणकीर्त्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ ' नास्माकमुत्कं मनः ।
"श्रुत्य प्रत्ययिनी सदा ऋजुतया स्वालोकविस्रम्भिणी, दाक्षिण्यैकनिधान ! केवलमियं दृष्टिः समुत्कण्ठते ॥८९॥ इत्याद्याः सङ्कथाः प्रपथिरे । प्रासाद-बिम्बप्रतिष्ठोत्सवाः संवृत्ताः । श्रीवस्तुपालन एकदा चैत्यस्य दूषण-भूषणानि पृष्टो यशोवीरः प्रोचे-देव ! शोभनदेवः सूत्रधारः शोभनः । ततो युक्तमेतदम्बा कीर्तिस्तम्भोपरि स्थिता 'एकामङ्गुलीमध्वकृत्य वर्त्तमाना घटिता । [* स तु कर्मकर एव । द्रव्यलोलुपः । अत्र तव मातुर्मूर्त्तिर्विलोक्यते । येन दाता दुर्लभः ।
३२६. शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु दाता भवति वा न वा ॥ ९० ॥
10 इत्यादि किमुच्यते ।] 'परमः प्रासादः । परं दोषा अपि सन्ति । प्रासादापेक्षया सोपानानि हस्वानि ९; स्तम्भे बिम्बान्याशातनाभाजनं स्युः २; द्वारप्रदेशे व्याघ्ररूपाणि पूजाऽल्पत्वाय स्युः ३; 'जिनपृष्ठे पूर्वजरोपणा' पाश्चात्यानामृद्धिनाशिनी ४; आकाशे जैनमुनिमूर्त्तिरोपणा त्वत्परं दर्शन पूजाऽल्पत्वाय ५; [ गूहली कृष्णा न मङ्गलाय ६; भारपट्टा: द्वादशहस्तप्रलम्बाः - कालेन स कोऽप्येवंविधो न भविष्यति यो विनाशे ईदृशः प्रक्षेपयिष्यति ७*] इत्यादि श्रुत्वा सत्यं मत्वा 15 न चुकोप' । भवितव्यतां चाप्रतिकारां निश्चिक्ये । विविधदानैर्विक्रमादित्य इव प्रकाश्य महिमानम्, विसृज्य स्वस्थाने लोकम्, सपरिजनो धवलक्ककं गत्वा प्रभुं "नत्वा सुखं तस्थौ ।
1
$ १५०) इतश्च श्रीवीरधवलस्य द्वौ पुत्रौ स्तः । एको वीरमः, अपरो वीसलः । तत्र वीरमो यौवन नस्थः शूरेषु रेखाप्राप्तः" । यो वर्षाकालेऽकस्मादुपरि पतन्त्या विद्युत उद्देशेन कृपाणीमाकृषत् । स एकदा कचिदेकादशीपर्वणि धवलक्ककमध्ये तरुतलमगमत् । तत्र पर्वण्यसौ रीतिः- वैष्णवैः सर्वै20 रष्टोत्तरशतं बदराणां" वा आमलकानां "वा द्रम्माणां वा मोक्तव्यं तरोरधः । वीरमेनाऽष्टोत्तरं शतं द्रम्मा मुक्ताः । एकेन तु वणिजा तस्यामेव सभायां "स्थितेनाष्टोत्तरं शतं "आछूनां "मुक्तम् । वीरमेण तस्योपरि कृपाणिका कृष्टा - रे ! अस्मत्तः किमधिकं करोषीति च" वदन्नसौ वणिजं हन्तुवधावत । वणिग्नष्ट्वा" वीरधवलाध्यासितां सभामाविशत् । जातः कलकलः । ज्ञातं पारम्पर्य वीरधवलेन । वणिजि पश्यति वीरमो [आकार्य *] हक्कितः - का ते चर्चा, यद्ययं त्वदधिकं करोति ? | 25 अस्माकं न्यायं न वेत्सि । दूरे भव; पुनर्मद्दृष्टौ " हि" नागन्तव्यं " भवता । वणिजो मम जङ्गमः कोशः । मयि जीवति" केनाभिभूयन्ते ? । इत्युक्त्वा तं वीरमग्रामाख्ये आसन्नग्रामेऽतिष्ठपत् । स तु कोणिककुमारवत् कंसवत् पितरि द्विष्टो जीवन्मृतंमन्योऽस्थात् । वीसलस्तु "राणश्रीवीरधवलस्य" वल्लभः श्रीवस्तुपालस्य च । अत्रान्तरे श्रीवीरधवलोऽचिकित्स्येन व्याधिना जग्रसे । तदा वीरमः खसहायैर्बलवान् भूत्वा" राज्यार्थी" राणकमिलनमिषेण धवलक्ककमागात् । तदैव श्रीवस्तु
1
1 P विधावस्माक० । 2 P श्रुत्वा । 3 P ततोऽपि न युक्तम् । 4 B एकदा मंगुली; DE एकदा एकदा० । * कोष्ठ
कगतः पाठः P पुस्तक एव दृश्यते स च प्रक्षिप्तप्रायः । 5 P प्रासादः परमतमः । 6 V निज० । 7 P ० रोपणात् । 8P ऋद्धिनाशो भविता । 9 A सत्यं सत्यं मन्वानः चुकोप; C D सत्यं मन्वन०; Poन चुकोप कोऽपि । 10 A नास्ति 'प्रभुं नत्वा' | 11 P रेखां प्राप्तः । 12 V बदिरफलानां । 13 P 'वा' नास्ति । 14 P तत्र स्थितेन० । 15 'आछूनां' स्थाने P 'दुष्कृता' । 16 P मुक्ता । 17 P 'च' नास्ति । 18P नष्टो 19 V मे दृष्टिं । 22 P जीवति सति । 23 P अतिष्टिपत् । 24 BV 'राणश्री' नास्ति ।
20 'हि' नास्ति PB | 21 PB नास्ति 'भवता' । 25 A वीरस्य । 26 V सम्भूय । 27 P राज्यार्थं ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org