________________
वस्तुपालप्रबन्धः।
१२३ म्यात् किं भयम् ? । श्रीमत्रिपादाश्चिरं राज्यमुपभुञ्जानाः सन्तीह तावत् । ततोऽनुपमया जगदेसूत्रधार ! चाटुमात्रमेतत् । कोऽपि क्षणः कीदृग्भवेत् ; को वेत्ति ?। सूत्रधारो मौनेनातिष्ठत् । पत्नीवचनमाकर्ण्य सचिवेन्द्रो बहिनि मृत्य सूत्रधारमवोचत्-अनुपमा किं वावदीति ? । सूत्रधारो व्याहार्षीत्-यद्देवेनावधारितम् । मन्त्री दयितामाह-किं त्वयोक्तम् ? । अनुपमाह-देव! वदन्त्यस्मि-कालस्य को विश्वासः । कापि कालकला कीदृशी भवति । न सर्वदा तेजः पुरुषाणां तथा। 5
३१७. श्रियो वा स्वस्य वा नाशो येनावश्यं विनश्यति । श्रीसम्बन्धे बुधाः स्थैर्यबुद्धिं बध्नन्ति तत्र किम् ॥८॥ ३१८. वृद्धानाराधयन्तोऽपि तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकान् अहो मुह्यन्ति जन्तवः ॥ ८१ ॥ ३१९. भूपभ्रूपलवप्रान्त निरालम्ब विलम्बिनीम् । स्थेयसीं बत मन्यन्ते सेवकाः खामपि श्रियम् ॥ ८२ ॥ ३२०. इतो विपदितो मृत्युरितो व्याधिरितो जरा । जन्तवो हन्त पीड्यन्ते, चतुर्भिरपि सन्ततम् ॥ ८३ ॥ एतत्तत्त्ववचः श्रुत्वा मन्त्रिवरः प्राह-अयि ! कमलदलदीर्घलोचने ! त्वां विना कोऽन्यः एवं 10 वक्तुं जानाति । ३२१. ताम्रपर्णीतटोत्पन्नैौक्तिकैरिक्षुकुक्षिजैः । बद्धस्पर्द्धभरा वर्णाः प्रसन्नाः स्वादवस्तव ॥ ८४ ॥ ३२२. गृहचिन्ताभरहरणं मतिवितरणमखिलपात्रसत्करणम् ।
किं किं न फलति कृतिनां गृहिणी गृहकल्पवल्लीव ॥ ८५॥ राज्यस्वामिनि ! वद, केनोपायेन शीघ्र प्रासादा निष्पत्स्यन्ते ?। देव्याह-नाथ ! रात्रीयसूत्र-15 धाराः पृथग , दिनीयसूत्रधाराः पृथग् व्यवस्थाप्यन्ते । कटाहिश्चटाप्यते । अमृतानि भोज्यन्ते । सूत्रधाराणां च विश्रामलाभाद्रोगो न प्रभवति । एवं चैत्यसिद्धिः शीघ्रा । आयुर्यात्येव श्रीरस्थिरैव । यतः
३२३. गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ॥ ८६ ॥ ___ इत्यादि सरखतीवीणाकणितकोमलया गिरोक्त्वा निवृत्ता सुलक्षणा सा। मन्त्रिणा सर्वदेश-20 कर्मस्थायेषु सैव रीतिः प्रारब्धा । निष्पन्नं च सर्वम् [स्तोकैरेव दिनैः] । गतो मन्त्री धवलक्ककम् । दिनैः कतिपयैर्व पनिकानरा आयाताः-देव ! अर्बुदाद्रौ नेमिचैत्यं निष्पन्नम् ।हृष्टौ द्वौ बान्धवौ। [पुनः प्रासादप्रतिष्ठा)] गतौ ससङ्घौ तत्र।
६१४९) तत्र च जावालिपुरात् श्रीयशोवीरो नाम भाण्डागारिका, सरस्वतीकण्ठाभरणत्वेन ख्यातः, आहूत" आगात् । मिलिता वस्तुपाल-तेजःपाल-यशोवीरा एकत्र, न्याय-विक्रम-विनया 25 इव साक्षात्। चतुरशीती राणाः, द्वादश मण्डलीकाः, चत्वारो महाधराः, चतुरशीतिर्महाजनाः-एवं सभा। तदा वस्तुपालेन यशोवीरः प्रोचे-भाण्डागारिक ! त्वं "उदयसिंहस्य मन्त्री, यौगन्धरायण इव वत्सराजस्य । तव स्तुतीः खस्थानस्थाः शृणुमः । यथा३२४. बिन्दवः श्रीयशोवीर ! मध्यशून्या निरर्थकाः । सङ्ख्यावन्तो विधीयन्ते त्वयैकेन पुरस्कृताः॥ ८७॥
__ यशोवीर ! लिखत्याख्यां यावच्चन्द्रे विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् ॥ ८८॥ 30 1 P मौनं कृत्वा स्थितः। 2 V क्वापि कला कालस्य; P कालवेला । 3 P सर्वदापि। 4 P तेजस्तथा यथा-। IV स्वस्य श्रियो वा नाशे। 5 P प्रान्ते । 6 P लम्बाऽविल।$P स्वल्पावस्थायिनी लक्ष्मी मन्यन्ते मंत्रिणो बुधाः ॥ 7A न भवति; V रोगा न भवन्ति । 8 P विहाय सर्वत्र 'स्थिरः स्थिरैव'। 9 POपनिकानर आयातः। 10 P जालहुरपुरात् । 11 Pस आहूतः। 12P नृपउदय।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org