________________
१२२
प्रबन्धकोशे एतत्कथाश्रवणान्मन्त्री दध्यौ'-वयं चत्वारो भ्रातरोऽभूम । [तन्मध्ये* ] द्वौ स्तः। द्वौ तु मालदेव-लूणिगावल्पवयसौ दिवमगाताम् । 'मालदेवनाम्ना कीर्तनानि प्रागपि अकारिषत कियन्त्यपि । लूणिगश्रेयसे तु लूणिगवसतिरवुदे काराप्या । एतत्तेजःपालाय प्रकाशितम् । तेन विनी
तेन सुतरां मेने। 5६१४८) अथ तेजःपालो धवलककादर्बुद गिरिभूषणां चन्द्रावतीं पुरीं गत्वा धारावर्षराणकगृह
मगात् । तेनात्यर्थ पूजितः, किं कार्यम् ?, आदिश्यतामित्युक्तं च । मन्त्रिणोक्तम्-अर्बुदशिखराने प्रासादं कारयामहे । यदि यूयं साहाय्याः स्यात। धारावर्षेण भणितम्-तव सेवकोऽस्मि । अहं सर्वकार्येषु धुरि योज्यः। ततो राष्ट्रिक-गौग्गलिकादयो महादानैर्वशीकृतास्तथा, 'यथा निष्पत्स्यमानं
चैत्यं करैर्न भारयन्ति । 'दानेन भूतानि वशीभवन्ति' [इति वचनात्*]। ततश्चन्द्रावतीमहाज10 नमुख्यं श्रावकं चाम्पलनामानं गृहे गत्वाऽऽललाप-वयं चैत्यमबुदे कारयामहे, यदि पूजासान्निध्यं कुरुध्वे । 'चाम्पलेनापि स्वस्य कुटम्बान्तराणामपि देवपूजार्थ नित्यधनचिन्ता कृता । ततो मन्त्री आरासणं गत्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निष्काशयत् । तद् युग्यै रहकलैश्चार्तुदोपत्यकामानीनयत् । अर्द्धक्रोशार्द्धक्रोशान्तरे हद्दानि [मण्डापितानि तत्र*] सर्व लभ्यते । पशूनां नराणां क्षुधादि कृच्छ्रेमा भूदिति [कारणात्*]। 'उम्बरिणीपथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि 15 गिरेः प्रवेशयामास। पुनस्तां पद्यां विषमां चकार यथा परचक्रस्य प्रवेशो नो भवेत्। एवं सिद्धे पूर्वकर्मणि, शोभनदेवं सूत्रधारमाहूय कर्मस्थाये" न्ययुत । ऊदलाख्यं "शालमुपरिस्थायिनमकरोत्। अर्थव्यये खैरितां च समादिशत् । एवं सूत्रं कृत्वा तेजःपालो धवलक्ककमागमत् । निष्पद्यते प्रासादः । श्रीनेमिबिम्ब कषोपलमयं "घट्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु
दुःशीलाः पुरःपुरोऽथ गृह्णन्ति । कार्यकाले पुनः पुनर्याचन्ते । तत ऊदलो मत्रितेजापालाय 20 लिखति-देव ! द्रम्मा विनश्यन्ति । सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजःपालेन कथापितम्-द्रम्मा विनष्टा इति किं ब्रूषे। विनष्टाः किं कुथिताः ? । न तावत् कुथिता, किन्तु मनुष्याणामुपकृताः। उपकृताश्चेद्विनष्टाः कथं [कथ्यन्ते*] ? । माता मे वन्ध्येति वाक्यवत्परस्परं विरुद्धं ब्रूषे । तस्मात् तत्त्वमिदम्-सूत्रधाराणामिच्छाछेदो न कार्यः, देयमेवेति । ततो
दत्ते ऊदलः।तावन्निष्पन्नं यावद् गर्भगृहम् , मध्ये श्रीनेमिनाथविम्बं स्थापितम्। एतच्च कृतं श्रीतेज:25 पालाय विज्ञप्तम् । तुष्टौ द्वौ मत्रिणौ । श्रीवस्तुपालादेशात् तेजःपालोऽनुपमया सहानल्पपरिच्छेदोर्बुदगिरि प्राप्तः। प्रासादं निष्पन्नप्रायं ददर्श । तुतोष । लात्वा सद्वस्त्रप्रावरणः सपत्नीको मन्त्री नेमि पूजयति स्म । अथ "ध्यानेनोर्ध्वस्तस्थौ चिरम् । क्षणार्द्धनानुपमा पतिं तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतुःस्तम्भीमूर्ध्वयितुमुपक्रमते । तदा*] मन्त्रिण्योक्तम्"-सूत्रधार! मम पश्यन्त्याश्चिरं बभूव। अद्यापि स्तम्भा नोत्त30 म्भ्यन्ते!। शोभनदेवेनोक्तम्-खामिनि ! गिरिपरिसरोऽयम् । शीतं स्फीतम् । प्रातर्घटनं विषमम् ।
मध्याह्रोद्देशे" तु गृहाय गम्यते, स्नायते, पच्यते, भुज्यते । एवं विलम्बः स्यात् । अर्थ" विल- 1A दधौ। 2 A मालवदेवः। 3 AV अर्बुदाग्रे। 4 A नास्ति । 1P यथा निष्पद्यमानचैत्योपरि प्रद्वेषं न भजन्ते । 5V चम्पकः। 61 चम्पकेनापि। 7 AB निरकाशयत् P निरवकाशयति । 8 A क्षुद्रादि। 9V उम्बरणी। 10 P परचक्रप्र०। 11 A स्थाने। 12 P आत्मशालकं। 13 BD पद्यते; P सजीकृतं विद्यते। 14 P अथ कायोत्सर्ग ध्यानेन । 15 V उपचक्रमे। 16 A मंत्रीण्युक्तं। 17 P मध्याहे। 18 P विना नास्त्यन्यत्रेदं पदम्। 19 V अथवा ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org