________________
15
वस्तुपालप्रबन्धः।
१२१ अङ्केवालियाख्यो' ग्रामस्तु ऋषभ-नेमियात्रिकाणां क्षीणधनानां खगृहाप्तियोग्यपाथेयरम्मपदे दत्तः । शत्रुञ्जय-रैवतकतलहट्टिका नगरयोः सुखासनानि कृत्वा मुक्तानि, अन्धज्वरितादीनां यात्रिकाणां तीर्थारोहणार्थम् । तदुत्पाटकनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्ठितानि ।
तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि [कारितानि*] । विदेशायातमूरिशुश्रूषार्थ सर्वदेशग्रामण्यो नियुक्ताः। तथा महातीर्थभूमौ नवीनवीयजिनप्रासादान; पुरे पुरे ग्रामे ग्रामे च 5 पुनर्जिनप्रासादान प्रारम्भयामास । लौकिकतीर्थकरणमपि वखामिरञ्जनार्थं चकार, न भक्त्या [खयं तु* ] सम्यग्दृष्टित्वात् । [एवं तस्योपकाराः कियन्त्यु(न्त उ-?)च्यन्ते विवेकशिरोमणेः*] ।
६१४६) एकदा मन्त्री स्तम्भ[तीर्थ*]पुरं गतो धवलककात् । तत्र [समुद्रतीरे*] यानपात्रात्तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरः कवीन्द्र आसन्नवर्ती । मन्त्रिणा समस्या पृष्टा___३१४. प्रावृट्काले पयोराशिरासीद् गर्जितवर्जितः ।
___10 सोमेश्वरः पूरयति स्म
अन्तःसुप्तजगन्नाथनिद्राभङ्गभयादिव ॥ ७७ ॥ तुरङ्गमषोडशकमुचितदाने[ऽत्र दत्तम् ] । पुनः कदाचिन्मत्रिणोक्तम्
काकः किं वा क्रमेलकः ।
सोमेश्वरेण पूरितं पद्यम्३१५. येनागच्छन्ममाख्यातो येनानीतश्च मत्पतिः । प्रथमं सखि ! कः पूज्यः काकः किं वा क्रमेलकः १ ॥ ७८॥
अत्रापि षोडशसहस्रा द्रम्माणां दत्तिः। एवं लीलास्तस्य । ६१४७) एकदा वृद्धेभ्यः श्रुतमैतिह्यम् । यथा-प्राग्वाट्वंशे श्रीविमलो दण्डनायको नेढ-चाहिलयो_ताऽभवत् । स चिरमर्बुदाधिपत्यमभुनक्, गूर्जरेश्वरप्रसत्तेः। तस्य विमलस्य विमलमतेर्वाञ्छाद्वयमभूत् । पुत्रवाञ्छा प्रासादवाञ्छा च । तत्सिद्ध्यै [खगोत्रदेवीं] "अम्बामुपवासत्रये- 20 णारराध । प्रत्यक्षीभूय सा प्राह-वत्स! वाञ्छां ब्रूहि । विमलो जगौ-पुत्रेच्छा प्रासादनिष्पत्तीच्छा चाऽबुंदशृङ्गे मे वर्तते। अम्बया प्रोक्तम्-द्वे प्राप्ती न स्तः। एकां ब्रूहि । ततो [भार्याश्रीदेव्या वचसा] विमलेन संसारद्धिमात्रफलामसारां पुत्रेच्छां मुक्त्वा प्रासादेच्छैव सफलीकर्तुमिष्टा । अम्बयोक्तम् -सेत्स्यति तवेयम् । परं क्षणं प्रतीक्षख । यावताऽहं गिरिवरार्बुदाधिठान्याः सख्याः श्रीमातुर्मतं गृह्णामि । [इत्युक्त्वा गता देवी, तावद्*] विमलो ध्यानेन तस्थौ ।25 श्रीमातृमतं लात्वा देव्यायाता; अभाणीच्च
३१६. पुष्पस्रग्दामरुचिरं दृष्ट्वा गोमयगोमुखम् । प्रासादाहाँ भुवं विन्द्याः श्रीमातुर्भवनान्तिके ॥ ७९ ॥
तत्तथैव दृष्ट्वा चम्पकद्रुमसन्निधौ तीर्थमस्थापयत् । पैत्तलप्रतिमा तत्र महती। विक्रमादित्यात् सहस्रोपरि वर्षाणामष्टाशीतौ गतायां चतुर्भिः सूरिभिरादिनाथं प्रत्यतिष्ठिपत् । 'विमलवसतिः' इति प्रासादस्य नाम [ दत्तम्*] । तस्मिन् दृष्टे जन्मफलं लभ्यते ।
30 1A आकवालिया। 2 AB रैवतोपत्यका०। 3 AB तयुग्यनराणां । । एतदन्तर्गता पंक्तिः V आदर्श एवं विद्यते। 4 V विहाय नास्त्यन्यत्र पदमिदम्। 5 AB आसन्नः। 6 P राशिः कस्माद् । 7 P प्राह । 8 P श्रुतमेवंविधम् । 9 BV नेड०, PV वाहिल। 10P 'दण्डनायकोऽभवत्' इत्येव पाठः। 11 P अम्बिका। 12 V अम्वया प्रोक्तम् । 13V मातुरनुमतं । 14 V मतं नीत्वा अम्बायाता । 15 ABD तत्तथा। 16 BD अवास्थापयत् A अवस्थापयत् । 17 P जन्म सफलं कथ्यते ।
१६ प्र० को.
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org