________________
प्रबन्धको
यख्यातिगर्भः। राजाह -स किमिति नात्रानीतः । वृद्धाह-आनीतोऽस्ति । दृश्यतां तर्हि ? | अश्ववारान्' प्रहित्य आनाय्य दर्शितो वस्तुपालः । दत्तोपदा [ मन्त्रिणा * ] । आलापितश्च राज्ञा[ मात्रा मदधिकस्त्वं पुत्रो मतः । तेन मम बान्धवस्त्वम् * ] अस्मन्माता त्वां स्तौति । [ एवं सुखवार्त्ता कृत्वा महतोत्सवेन स्वमातुरग्रेसरः कृत्वा श्रीवस्तुपालो ढिल्लीपुरं नीतः । आवासितश्च 5 साधुपून डस्यावासे । खमुखेन सुरत्राणेन निमत्र्य साधुपूनडसदने भोजयित्वा निजधवलगृहे आकारितः सचिवेन्द्रः । सविनयं सत्कृत्य परिधापितः । सुवर्णकोटिमेकां प्रसादपदे दत्त्वा उक्तश्चेति *-] किञ्चिद्याचख । [ येन वस्तुना प्रयोजनं तद्वद । ] वस्तुपालेनाभिहितम् - देव ! गुर्जरधरया सह देवस्य यावज्जीवं सन्धिः स्तात् । उपलपञ्चकं मम्माणीखनीतो दापय । राज्ञा मतं तत् । [ दत्ता धीरा * ] फलहीपञ्चकं तु [ नृपादेशात् * ] पूनडेन प्रेषितं शत्रुञ्जयाद्रौ । 10 तत्रैका ऋषभफलही । द्वितीया पुण्डरीकफलही । तृतीया कपर्द्दिनः । चतुर्थी चक्रेश्वर्याः । पञ्चमी तेजलपुर' [प्रासाद*] पार्श्वफलही । [ चलितः पश्चात् * ] मन्त्रीश्वरः खपुरं गतः । प्रणतः खखामी तेन चिरदर्शनोत्कण्ठाविह्वलेन' । पूर्वमपि कर्णाकर्णिकया श्रुतं ढिल्लीगमनवृत्तान्तम् । [ पुनः सविशेषं * ] मन्त्रिणं पप्रच्छ । सोऽपि निरवशेषमगर्वपरः प्राचख्यौ । तुष्टो वीरधवलः । दत्ता दशलक्षी हेन्नां प्रसादेन' । सा तु गृहादर्वागेव दत्ता [ बहुमिलितयाचकेभ्यः । मिलितो * ] 15 मन्त्रिगृहे सर्वो[ऽपि *] लोकः । [स*] सत्कृत्य प्रेषितः । कवयस्तु पठन्ति
20
25
१२०
३१०. श्रीमन्ति दृष्ट्वा द्विजराजमेकं, पद्मानि सङ्कोचमहो भजन्ति । समागतेऽपि द्विजराजलक्षे, सदा विकासी तव पाणिपद्मः ॥ ७३ ॥ ३११. उच्चाटने विद्विषतां रमाणामाकर्षणे स्वामिहृदश्च वश्ये ।
एकोऽपि मन्त्रीश्वरवस्तुपाल ! सिद्धस्तव स्फूर्त्तिमियर्त्ति मन्त्रः ॥ ७४ ॥
एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो महानगरवासिना नानाककविना" भणितम्
३१२. एकत्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितम्, लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवम्, पातालाद्वलिमुद्दिधीर्षुरसकृन्मार्गं भवान् मार्गति ॥७५॥ तदैव कृष्णनगरीयकविकमलादित्येन भङ्ग्यन्तरमुक्तम्
३१३. लक्ष्मीं चलां त्यागफलां चकार यां", साऽर्थिश्रिता कीर्तिमसूत नन्दिनीम् । साऽपीच्छया क्रीडति विष्टपाग्रत, स्तद्वत्तयाऽसौ त्रपते यतो महान् ॥ ७६ ॥
[ तेषां कवीनां भूरि दानं दत्तमू* । ]
१४५) अथ कदाचन मन्त्रिणा श्रुतं यथा - रैवतकासन्नं गच्छतां लोकानां पार्श्वतो भरटकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलकेभ्यः " कणमाणकमेकं १, कूपकात्कर्षः १ - एवं उपद्रूयते 30 लोकः । तत आयतिदर्शिना सचिवेन ते भरटकाः कुहाडीनामानं ग्रामं दत्त्वा तं करमुदूग्राहयतो निषिद्धाः ।
Jain Education International
1 V किमानीतो न । 2 Vदश्यतां । 3 VB वारं । * एते कोष्टकगताः सर्वेऽपि पाठाः SV आदर्शऽधिकं वाक्यमिदम् । 4P नास्ति 'तु' | । 6 P ० पुरे श्रीपार्श्व० । 7 A 9 P प्रसादपदे । 10 VB • वासिनानकविना । नास्ति ।
5 A प्रैषि 11 P 'यां'
P पुस्तक एव उपलभ्यन्ते । ० विलेन । 8P प्राचख्यौ । 12 AB नन्दनीम् । 13 P पोहलि० ।
For Private & Personal Use Only
www.jainelibrary.org